सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 65, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 65

५६ भोजनकुतूहले
शस्यते ज्वरहीनानां दृष्ट्यायुश्श्रवणार्थिनाम् ॥
मांसरस ।
प्रकाराः कथितास्सन्ति बहवो मांससम्भवाः ।
ग्रन्थविस्तरभीतेन मया नात्र प्रदर्शिताः ॥
गोधूमचणपिष्टाभ्यां भाविताभ्यां घृतादिना ।
पिण्डिताभ्यां जलेनापि पाचिताभ्यां घृतादिषु ॥
कनकाभास्सुजायन्ते त एते कटकर्णकाः ।
बृंहगा मधुरास्स्निग्धास्तोष्णाः कटुविपाकिनः ॥
कटकर्णकाः, कडकणे इति भाषया ।
तप्ततैलघृते पात्रे गोलकान्विस्तृतान् क्षिपेत् ।
उत्तानाः पाकसंंसिद्धा मृष्टाश्चुन्द्रात्रिकाः स्मृताः ।
एता बल्या विदाहिन्यः श्लेष्मघ्नाः पित्तलाः परम् ॥
ता एव —
चन्द्रमण्डलसङ्काशा वर्तुला भ्राष्ट्रपाचिताः ।
वातपित्तहरा बल्या वृष्या दृष्टिप्रसादनाः ॥
चुन्द्रात्रिकास्संहारिकापर्यायाः ।
इदानीं साधारण्येन गुणानाह —
गुडगोधूमसम्मिश्रतैलपक्वान्नभक्षणात् ।
करोति पित्तं श्लेष्माणं चक्षुर्मारुतनाशनम् ॥
विदाहिनस्तैलकृता गुरवः कटुपाकिनः ।
उष्णा मारुतहृत्पित्ताः पित्तलास्त्वक्प्रदूषगाः !
१. P1. ज्वरहीनानां ।
२. P1, P2 T2. Bh. adds before this
प्रक्षाल्य खण्डितं मांसं छागादेः कोष्णवारिणा ।
पलाण्डु खण्डान्याज्येऽथ पतत्रे प्रतिपेत् पुरा ॥
ततो मांसं विनिक्षिप्य पचेन्मृद्वाग्निना चिरम् ।
सम्भारसंयुक्तं पक्वं वृष्यं रुच्यं बलप्रदम् ॥
तन्मांसं योजयेच्छाकपाकादौ पाकवित्तमः ॥
J1 adds the name संहारिकाः ।
J1. omits इदानीं ... .. चक्षुर्मारुतनाशनम् ।