सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 64, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 64

प्रथमपरिच्छेदः । ५३
शुद्धमांसविधानेन मांसं सम्यक् प्रसाधितम् ।
पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः ॥
तलितं बलमेधाग्निशुक्रौजोट्टाद्विकृन्मतम् ।
तर्पणं लघु सुस्निग्धं रोचनं बृंहणं परम् ॥
तलितमांसम् ।
कालखण्डादिमांसानि ग्रथितानि शलाकया ।
घृतं सलवणं दत्वा निर्धूमे दहने पचेत् ।
तत्तू शूल्यमिति प्रोक्तं पाककर्मविशारदैः ॥
शूल्यं बल्यं सुधातुल्यं रुच्यं वह्निकरं लघु ।
कफवातहरं पथ्यं किञ्चित्पित्तहरं हि तत् ॥
शूल्यं, शीख इति भाषया ।
शुद्धमांसं तनूकृत्य कर्तितं स्वेदितं जले ।
लवङ्गहिङ्गलवणमरीचार्द्रकसंयुतम् ॥
एलाजीरकधान्याकनिम्बू रससमन्वितम् ।
घृते सुगन्धे तद् भृष्टं पूरणं प्रोच्यते बुधैः ॥
शृङ्गाटकं समितया कृतं पूरणपूरितम् ।
पुनस्सर्पिषि सम्भृष्टं मांसशृङ्गाटकं वदेत् ॥
मांसशृङ्गाटकं रुच्यं बृंहणं बलकृद् गुरु ।
वातपित्तहरं वृष्यं कफघ्नं वीर्यवर्धनम् ॥
मांसशृङ्गाटकम् ।
सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः ।
प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम् ॥
विशिष्टभग्नसन्धानश्शुद्धानां शुद्धिकांक्षिणाम् ।
स्मृत्योजोबलहीनानां ज्वरक्षीणक्षतोरसाम् ॥
१. T२. वृष्य ।