भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
DevanagariSanskritpublished358 पृष्ठ
पृष्ठ 63, कुल 358 में से
संदर्भ में पढ़ेंपृष्ठ 63अजाजी मरिचं शुण्डी ग्रन्थिधान्या निशाद्वयाः ।
अजाजी मरिचं शुण्डी ग्रन्थिधान्या निशाद्वयाः ।
पिप्पली दाडिमं चैते वेसवारगणो मतः ॥ इति ।
हृदयदीपे तु—
सुस्विन्नपिष्टं पिशितं गुडाज्यं
व्योषान्वितं स्यादिह वेसवारः ।
इति न सार्वत्रिकम् ।
शुद्धमांसं परं वृष्यं बल्यं रुच्यं च बृंहणम् ।
त्रिदोषशमनं श्रेष्ठं दीपनं धातुवर्धनम् ॥
शुद्धमांसम् ।
पाकपात्रे घृतं दत्त्वा हारिद्रादींस्तु भर्जयेत् ।
छागादेस्सकलस्यापि खण्डान्यग्नौ तु भर्जयेत् ॥
सिद्धियोग्यं जलं दत्त्वा पचेन्मृद्वन्तरं यथा ।
राजिकादियुते तक्रे मांसखण्डानि वापयेत् ॥
तत्तक्रमांसमित्युक्तम् ।
तक्रमांसं तु रक्तघ्नं लघु रुच्यं बलप्रदम् ।
कफघ्नं पित्तलं किञ्चित्सर्वाहारस्य पाचनम् ॥
तक्रमांसम् ।
पाकपात्रे तु बृहति मांसखण्डानि निक्षिपेत् ।
पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गुजीरकम् ॥
हरिद्रामार्द्रकीं शुण्ठीं लवणं मरिचानि च ।
तण्डुलांश्चापि गोधूमान् जम्बीराणां रसान् बहून् ॥
यथा सर्वाणि वस्तूनि सुपक्वानि भवन्ति हि ।
तथा पचेत निपुणो बहुमण्डस्थितिर्यथा ॥
एषा हरीषा बलकृद्वातपित्तहरा गुरुः ।
शीतोष्णा शुक्रदा स्निग्धा सरा सन्धानकारिणी ॥
हरीषा, आस इति भाषया ।
१. P₂. T₂ खण्डान् पात्रे ।
२. J₁. omits this explanation.