सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 62, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 62

प्रथमपरिच्छेदः । ५१
दंत्वा संयोज्य चक्राणि रज्ज्वाकाराणि निर्ममेत् ।
रुच्यानि तानि बल्यानि तैलपक्कानि भक्षयेत् ॥
धकल्वा ।
प्रक्षालिसकृततण्डुलपिष्टमेष्ट-
पाके निधाय सुगुडस्य पचेच्च युक्त्या ।
तुल्यस्य तस्य ललनाकरलालितस्य
लोप्त्रीं सुधांशुसदृशीं विपचेद्घृतादौ ॥
पित्तापहानतिरसान् प्रवदन्ति तज्ज्ञा-
स्तानेव किञ्चिदधिकद्रवतस्त्वपोलान् ।
अतिरस, अपाल ।
गुडगोधूमसम्मिश्रतैलपक्वान्नभक्षणात् ।
करोति पित्तं श्लेष्माणं चक्षुर्हितनाशनम् ॥
घारिचण्डारिकापूपवाटिकावटकादयः ।
वृष्याश्च रोचना बल्या गुरवः स्युः स्वयोनिवत् ॥
अथ मांसप्रकाराः ॥
पाकपात्रे घृतं दद्यात् तैलं वा तदलाभतः ।
तत्र हिङ्गुहरिद्रां च भर्जयेत्तदनन्तरम् ॥
छागादेरस्थिरहितं मांसं तत्खण्डखण्डितम् ।
धौतं निर्गलितं तस्मिन् घृते तद्भर्जयेच्छनैः ॥
पाकयोग्यं जलं दत्वा लवणं च पचेत्ततः ।
सिद्धे जलेन संपिष्य वेसवारं परिक्षिपेत् ।
द्रव्याणि वेसवारस्य नागवल्लीदलानि च ।
तण्डुलाश्च लवङ्गानि मरीचानि समासतः ॥
अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् ॥
'वेसवार उपस्करः' इति हैमनः । तद्द्रव्याणि च निघण्डौ—
१. $J_1.$ omits this verse.
२. $P_1. P_2.$ पारान् ।
३. $Bh.$ omits this verse.