सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 61, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 61

भक्ष्यस्सुधापरो नाम्ना वृष्यः पित्तानिलापहः ।
:रोचनो बृंहणस्स्वादुर्वर्ण्यो दृष्टिप्रसादनः ॥
सुधापरः
एतत्प्रकारंस्तु समितारेवकान् खर्बूररेवकांन् वातिसूक्ष्मान् संगृह्य तत्सम-
परिमाणां सितां चातिघनं घृतं च क्रमेकत्र मेलयित्वा सम्मर्द्यामलक-
प्रमाणान् गोलकान् रजतपात्रे पृथक् पृथक् संस्थाप्य, तदुपर्यन्यद्रा-
जतं विधाय यावत्पिधानतापं संस्थापयेत् । ततस्तान् गोलकान् विक-
सितमल्लीमाल्यसदृशान् निष्कासयेत् । तान् सुधापरानाहुः ।
प्रक्षाल्य तण्डुलान् सम्यक् चूर्णयेत्तानुलूखले ।
समया सितया योज्य मर्दयेत्तद्विचक्षणः ॥
यथा पिण्डीभवेत् पिष्टं तथा लोस्त्रीं विधाय च ।
बजिषु वाहिफेनस्य निस्तुषेषु तिलेषु वा ॥
प्रसारितां तां सुघृते पाचयेत्सुविचक्षणः ।
भवन्ति ते ह्यनरसा रसिकाना मुदावहाः ॥
कुण्डलिन्यास्समगुणाः किञ्चिद् गुरुतरा अपि ।
वृष्याः परं पित्तहरास्तर्पणा रुचिकारकाः ॥
अनारसे ।
पत्त्वा जले सुविमलेऽप्यथवा शर्करोदके ।
पिष्टिकातण्डुलानां तु गाढां लोस्त्रीं प्रवेल्लयेत् ॥
घृते तैलेऽथवा सिद्धा घारिकेति मता सताम् ।
घायौ ।
भर्जितान् तण्डुलान्माषविदळैस्स्वसमैस्सह ।
पिष्ट्वा तण्डुलपिष्टं चाप्यपक्वं तत्र योजयेत् ।
किञ्चिदेकीकृते तस्मिन् जीरकादीन् विनिक्षिपेत् ॥
१. J1. omits एतत्प्रकारस्तु to अपाल in the next page line 10.
२. Bh. omits वातिसूक्ष्मान् ... ... गोलकान् ।
३. P1. P2. संस्थाप्य दृढङ्गारेषु पात्रं संस्थाप्य तदुपरि ।