भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 60, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
घृताक्तां समितां कृत्वा कुर्यादङ्गारकर्कटीम् ।
चूर्णयित्वाऽथ तां तत्र क्षिपेत्सघृतशर्कराम् ॥
कर्पूरैर्वासयित्वा कुर्यादुत्तममोदकान् ।
संस्थाप्य शीतले स्थाने भक्षयेन्मण्डवड्डणान् ॥
चुर्मालाडुं ।
एतां एवाङ्गारकर्कटीस्थाने घृतपाके सति दळीयालाडु इति गुर्जरा
व्यवहरन्ति ।
अत्युन्नताश्च गोधूमगोलकाः परिपाचिताः ।
मुद्गानां वेसवारैस्तु पूर्णा गुरुतरा मताः ॥
मुद्गपूर्णफले ।
एवमेव विजानीयात् तुवरीचणकादिभिः ॥
तत्रापि—
मधुरं मधुराम्लं च पित्तकृन्नातिवातलम् ।
कफप्रकोपजननं विद्याच्चणकपूरणम् ॥
दुर्जरं बलकृद्वृष्यं वह्निमान्द्यकरं गुरु ।
रुच्यं पित्तप्रशमनं विद्यान्माषादि पूरणम् ॥
आदिशब्दो राजमाषादिसङ्ग्रहार्थः
पोळिका पूर्णगर्भा तु गुर्वी स्याद्गुडदालिता ।
पूर्णपोळी
मृदुपाकाश्च ये भक्ष्याः स्थूलाश्च कठिनाश्च ये ।
गुरवस्ते त्वतिक्रान्तपाकाः पुष्टिबलप्रदाः ॥
१. J1. Omits एतां .. .. व्यवहरन्ति
२. J1. adds:— पूरणविशेषः after चणकादिभिः and omits the
word तत्रापि ।
३. adds दृढपूरणम् for the same
४. J1. omits:— आदिशब्दो .. ... सङ्ग्रहार्थः।
५. J1. पुष्टिबलापहाः
281