भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 59, कुल 358 में से
संदर्भ में पढ़ें[३८]
भोजनकुतूहले
सैषैव गोलाकृतिका भवेद्धाधिवटीत्यपि ।
रेष्मीति भाषायां ।
तैले विपक्वा वटकाश्च शालिजाः सुदुर्जरा रोचनभङ्गदाश्च ।
कफप्रकोपं जनयन्ति सद्यो विशेषतः. कूरवटाश्च जीर्णाः ॥
कुर्वडी ।
ऐतद्गुणैव शाण्डाकी प्रोच्यते गुणवित्तमैः ।
सांडयी ।
किञ्चिल्लघुगुणा आहुर्वटीर्मण्डसमुद्भवाः ।
नाचण्याच्य वड्या ।
समितायामर्धमितं घृतं क्षिप्त्वातिभर्जयेत् ।
वर्णव्यत्ययतः यावदवतार्याथ शीतले ॥
समितायास्तृतीयांशसितां तत्र नियोजयेत् ।
एलालवङ्गमरिचं यथायोग्यं विनिक्षिपेत् ॥
लड्डुकास्तस्य पित्तघ्ना रुच्याः कापविवर्धनाः ।
समितामोदका नाम गुर्जरैस्सुविशेषिताः ॥
गुर्जरभाषया पल्मृदीपा इति प्रसिद्धाः ।
समितायां ससितायां सम्यक् पक्वं पयोघृतम् ।
तथा योज्यं यथा तत्र सम्यक् स्याद्दवकोद्गमः ॥
भर्जयेदर्धपाकेऽस्य घृतं योज्यं यथामति ।
सम्यक् पाकेऽथ सम्पन्ने शीतस्थाने निधापयेत् ॥
समभागां सितां दद्यान्मोदकाः पूर्ववद्गुणैः ।
कथ्यन्ते द्रावको नाम गुर्जरैः पाककोविदैः ॥
द्रावालाडु ।
पादटिप्पणी (Footnotes):
१. $J_1$. omits this pasage.
०२. $J_1$. omits एतद्गुणैव $\dots\dots$ पाककोविदैः । द्रावालाडु