भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 58, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । ४७
एवंप्रकारकाः कार्या बेसनेनापि मोदकाः ।
ते बल्या लघवश्शीताः किञ्चिद्वातकरास्तथा ।
विष्टम्भिनो ज्वरघ्नाश्च पित्तरक्तकफापहाः ॥
बून्दीचे लाडु ।
एवमेव प्रकारेण माषजा अपि मोदकाः ।
किञ्चित्समगुणा माषैः रत्नमोदकसंज्ञकाः ॥
रत्नलाडु ।
घृताक्तया समितया कृत्वा सूत्राणि तानि तु ।
निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत् ।
युक्तेन मोदकान् कुर्यात् ते गुणैर्मण्डका यथा ॥
सेवेचे लाडु ।
नूतनं घटमादाय तस्यान्तः कुशलो जनः ।
प्रस्थार्थपरिमाणेन दध्नाम्लेन प्रलेपयेत् ।
द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् ।
घृतमर्धशरावं च घोलयित्वा घटे क्षिपेत् ॥
आतपे स्थापयेत्तावद्यावद्याति तदम्लताम् ।
ततस्तु प्रक्षिपेत्पात्रे सच्छिद्रे भाजने च तत् ॥
परिभ्राम्य परिभ्राम्य तत्सन्तप्ते घृते क्षिपेत् ।
पुनः पुनस्तत्प्रवृत्या विदध्यान्मण्डलाकृतिम् ॥
तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे ।
कर्पूरादिसुगन्धे च श्रपयित्वोद्धरेत्ततः ॥
एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा ।
धातुवृद्धिकरी वृष्या रुच्या चेन्द्रियतर्पणी ॥
जिलेबी .
omits this verse.
२. After this Bh. adds the word योगप्राप्तेने before the
next verse.