सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 57, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 57

४६ भोजनकूतूहल

^१किञ्च —
शष्कुली मधुरा स्निग्धा रुच्या श्लेष्माविवर्धनी ।
वातघ्नी बृंहणी गुर्वी वीर्येणोष्णा त्रिदाहिनी ॥
^२कचोरी ।
अत्युच्छ्रितास्तु गोधूमगोलकाः परिपाचिताः ।
^३वातघ्ना मधुराः स्निग्धा वृष्या बलवतां हिताः ॥
फले गोधूमाची ।
रुच्या वातहरा बल्या माषापूपास्तु बृंहणाः ।
शुक्लवृद्धिकराः स्निग्धाः शस्ता व्यायामशालिनाम् ॥
उडिदांची फळें ।
स्थूलास्स्युर्वर्तुलाः कुब्जास्सच्छिद्रा स्नेहपाचिताः ।
पिष्टापूपा रुचिकरा गुरवः कफपुष्टिदाः ॥
घारगे ।
गोधूमचूर्णं सुलक्ष्णं क्षीरे पक्त्वा घृते पचेत् ।
एष भक्ष्यः परं वृष्यो मधुरो बृंहणो गुरुः ॥
क्षीरघारगे ।
मुद्गानां धूमसीं सम्यग् घोलयेन्निर्मलाम्बुना ।
कटाहस्थघृतस्योर्ध्वं झर्झरं स्थापयेत्ततः ॥
धूमसीं तु द्रवीभूतां प्रक्षिपेज्झर्झरोपरि ।
पतन्ति बिन्दवस्तस्मात् तान् सुपक्वान् समुद्धरेत् ।
सितापाकेन संयोज्य कुर्याद्युक्तेन मोदकान् ॥
लघुर्ग्राही त्रिदोषघ्नः स्वादुश्शीतो रुचिप्रदः ।
चक्षुष्यो ज्वरहद्वल्यस्तर्पणो मुद्गमोदकः ॥
मोतीलाडु ।


१. J1. अपि च ।
२. J1. gives the Sanskrit name instead as शष्कुली ।
३. T2. omits this line : वातघ्ना... ... ...हिताः ।