भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 56, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
समिता वेसने जीरहिङ्गुमारीचयोजिते ।
घृताक्ते जलसंयुक्ते पीठस्योपरि वेल्लिते ।
घृतेन वाथ तैलेन भर्जिता पूरिका भवेत्
पूरिका बृंहणाः स्निग्धा वृष्या पित्तानिलापहाः ।
घृतपाचिता इत्यर्थात् ।
मधुरास्तैलपाकिन्यो गुर्व्यः श्लेष्मानिलापहाः ॥
इत्युत्तरत्र विधानात् । पूरो ।
माषमुद्गादिचूर्णैश्च शालिपिष्टैश्च सम्भृताः ।
जलौघोपरि सम्पक्काः सुरूपास्स्युरवन्तिकाः ॥
ईडली ।
इयमेव स्नेहपाके चण्डारिकेत्युच्यते । २ तद्गुणाश्च —
वृष्या रोचनदीपनी बलकरा गुर्व्यप्यभिष्यन्दिनी
सद्यस्तर्पणकारिणी रसवती श्लेष्मप्रवृद्धिप्रदा ।
घोरानाहविबन्धगुल्मशमनी पित्तास्रविच्छेदिनी
स्नेहेनापि सुपूरिता च सततं भक्ष्या च चण्डारिका ३ ॥
तथा —
घृतपूरं बलकरं वृष्यं मधुरशीतलम् ।
हन्ति वातं रक्तपित्तं ४ श्लेष्मलं च विशेषतः ॥
घृतपूर इति चण्डारिकाया नामान्तरम् । घिउर इति भाषया।
दोपकाः श्लेष्मला बल्या गुरुरुच्याश्च बृंहणाः ।
घिरडीं ।
समिताया घृताक्ताया लोप्त्रीं कृत्वाथ वेल्लयेत् ।
आज्ये तां भर्जयेत् सिद्धा शष्कुली फेणिकागुणा ॥
१. J1. omits the word इडली ।
२. J1. omits the word तद्गुणाश्च ।
३. J1. adds here अवन्ती ; इडली चण्डारिका घिउर
४. P1. P2. Bh. श्लेष्मणम् ।