भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 55, कुल 358 में से
संदर्भ में पढ़ें४४ भोजनकुतूहलं
पचेद्घृतेऽतिबहुले सैषा स्याच्छर्करोदरी ।
गुणे गुणज्ञैस्सा ज्ञेया यथा कर्पूरनालिका ।
.साखररोटीति भाषया, कापूरनारी इति प्रसिद्धा
समिताया घृताढ्याया वर्तीर्दीर्घास्समांचरेत् ।
तांस्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् ॥
वेल्लयेद्वेलनेनैता यथैका पर्पटी भवेत् ।
ततच्छुरिकया तां तु संलग्नामेव कर्तयेत् ॥
ततस्तु वेल्लयेद् भूयः शकटेन तु लेपयेत् ।
ततस्संवृत्य तल्लोष्ट्रीं विदधीत पृथक् पृथक् ॥
पुनस्तां वेल्लयेल्लोष्ट्रीं यथा स्यान्मण्डलाकृतिः ।
ततस्तां सुपचेदाज्ये भवेयुश्च पुटाः पुटाः ॥
सुगन्धया शर्करया तदुद्धूलनमाचरेत् ।
सिद्धैषा फेनिका नाम्नी मण्डकेन समा गुणैः ॥
ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः ।
वेल्लयेत्प्रसारयेत् । शकटस्तु —
शालिचूर्णं घृतं तोयं मिश्रितं शकटं वदेत् । इति ॥
साँटा इति महाराष्ट्राः
१९ --
लघुरपि रुचिकर्त्री फेनिकातिप्रशस्ता
बलवति लघुजीर्णे छर्दिनाशं करोति ।
विदलति मुखघर्मं चाम्लपित्तं विदाहं
जठरभरणयोग्या गोधुमैस्सम्प्रयुक्ता ॥
गोधूमफेणी ।
गुर्व्योऽतिबृंहणाः स्निग्धाः बल्याश्शुक्रकरास्मृताः ।
स्त्रीषु हर्षं प्रयच्छन्ति माषपिष्टकसम्भवाः ॥
माषफेणी ।
१. J1. gives the Sanskrit name कर्पूरनाली instead.
३. J1. omits साटा...... सङ्गेणः ।