भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 54, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
मण्डवत्समितां सिद्धां कृत्वा कुर्याच्च पोलिकाम् ।
शृङ्गाटाकृतिकान् कुर्यात् खण्डशस्तान् पचेद् घृते ।
मज्जयेच्च सितापाके ततस्ते तु समुद्धृताः ।
शङ्खपाला इति प्रोक्ताः पाकशास्त्रविशारदैः ॥
शङ्करपाले
पर्पटास्साज्यसमिता निर्मिता घृतभर्जिताः ।
कुट्टिताश्चालिताश्शुद्धशर्कराभिर्विमिश्रिताः ॥
तस्मिंश्चूर्णे क्षिपेदेलालवङ्गमरिचानि च ।
नारिकेरं सकर्पूरं चारबीजान्यनेकशः ॥
घृताक्तसमिता पुष्टा रोटिका रचिता ततः ।
तस्यां तत्पूरणं न्यस्य कुर्यान्मुद्रां दृढां सुधीः ॥
सर्पिषि प्रचुरे तां तु सुपचेन्निपुणो जनः ।
प्रकारज्ञैः प्रकारोऽयं संयाव इति कीर्तितः ॥
मण्डकेन समो ज्ञेयः संयावोऽपि गुणैर्जनैः ॥
करञ्जी ।
घृताढ्यया समितया कृत्वा लम्बपुटं ततः ।
लवङ्गोषणकर्पूरयुतया सितया युतम् ॥
पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका ।
१संयावसदृशी चैषा गुणैः कर्पूरनालिका ॥
घृताढ्यसमितालोप्त्रीमध्ये क्षिप्त्वा सुशर्कराम् ।
लेपयेच्छकटैनैनां मृदु युक्त्या तु वेष्टयेत् ॥
१. J1. This line and the next two verses are left out
probably by the scribe.
२. P1. P2. Bh. वेल्लयेत् ।