भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 53, कुल 358 में से
संदर्भ में पढ़ें४२ भोजनकुतूहले
मुद्गपिष्टीं पचेत्सम्यक् स्थाल्यामास्तारकोपरि ।
तस्यास्तु गोलकं कुर्यात् तन्मध्ये पूरणं क्षिपेत् ॥
तैले तान् गोलकान् पक्त्वा कथिकायां निमज्जयेत् ।
गोलकाः पाचकाः प्रोक्तास्ते त्वार्द्रवटका अपि ॥
मुद्गार्द्रकवटा रुच्या लघवो बलकारकाः ।
दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजिताः ॥
मुद्गार्द्रवटकाः ।
दाळयश्चणकानां तु निस्तुषा यन्त्रपेषिताः ।
तच्चूर्णं वेसनं प्रोक्तं पाकशास्त्रविशारदैः ॥
वटिका वेसनस्यापि कथिकायां निमज्जिता ।
रुच्या विष्टम्भजननी बल्या पुष्टिकरी स्मृता ॥
एवमन्येऽपि ये केचिद् भक्ष्या वेसनसम्भवाः ।
तद्गुणास्तेऽपि बोद्धव्या युक्त्या पाकविशारदैः ॥
चुबुकवटी ।
समितां मर्दयेदाज्यैर्जलेनापि च मन्वयेत् ।
तस्यास्तु वटकं कृत्वा पचेत्सर्पिषि नीरसम् ॥
एलालवङ्गकर्पूरमरीचाद्यैरलङ्कृते ।
मज्जयित्वा सितापाके ततस्तं च समुद्धरेत् ॥
अयं प्रकारसंसिद्धो मण्ड इत्यभिधीयते ।
मण्डस्तु बृंहणो वृष्यो बल्यस्सुमधुरो गुरुः ॥
पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ।
समिता शर्करासर्पिर्विमिश्रा अपरेऽपि ये ॥
प्रकारा अमुना तुल्यास्तेऽपि चैतद्गुणा स्मृताः ॥
माठ
३ अपरे शङ्करपालादयः, ते च —
१. Bh. त्रिदोषेषु प्रपूजिताः ।
२. Bh. adds a note here 'कढीचे पीठ, बेसन इत्येकनाम ।
३. J1. omits अपरे