भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 51, कुल 358 में से
संदर्भ में पढ़ेंशालिपिष्टदधिखण्डसंयुता दघ्न एव वटका तथा कृता ।
घोरवातशमना रुचिप्रदा पित्तरोगमपहन्ति दारुणम् ॥
दहिबडे ।
मुङ्गानां वटकास्तद्वद्रचितास्साधितास्तथा ।
पथ्या रुच्यास्ततो लघ्व्यो मुद्गसूपगुणा स्मृताः ॥
तथा —
मुद्गजातास्तु ये केचिल्लघवॊ रुचिकारकाः ।
दुर्जरा लघवॊ रुच्याश्चणकादिकृता वटाः ॥
मुद्गचणकादिवटी ।
माषपिष्टिकया लिप्तं नागवल्लीदलं महत् ।
तनु संस्वेदयेद्युक्त्या स्थाल्यामास्तारकोपरि ॥
ततो निष्कास्य तं खण्डं ततस्तैलेन भर्जयेत् ।
अलीकामच्छ उक्तोऽयं प्रकारः पाकपण्डितैः ॥
तं वृन्ताकभरित्रेण वास्तूकेनापि भक्षयेत् ।
अलीकमच्छाश्शुष्का वा किं वा कथिकया युताः ॥
बृंहणा रोचना वृष्या बल्या वातगदापहाः ।
कोष्ठशुद्धिकरा युक्त्या किञ्चित्पित्तप्रकोपन्नाः ।
अर्दिते सहनुस्तम्भे विशेषेण हिताः स्मृताः ॥
अलीकमच्छाः ।
कथिका यथा—
स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत् ।
अवलेहनसंयुक्तं तक्रं तत्रैव निक्षिपेत् ॥
एषा सिद्धामरिचा कथिता कथिका बुधैः ।
कथिका पाचनी रुच्या लघ्वी वह्निप्रदायिनी ।
कफानिलविबन्धघ्नी किञ्चित्पित्तप्रकोपिनी ॥
१. T₂. P₁. P₂. मधुक़ारकाः ।
२. J₁. वह्निप्रदीपनी ।