सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 50, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 50

प्रथमपरिच्छेदः ।
अपि च —
आर्द्रकरामठसैन्धवजीरकयुक्तमठाकृतिकास्सुतिलाः ।
अम्बुजबन्धुकरैः कठिनास्तिलतैलभ्रुता रुचिदा वटकाः ।
कोहलंवडे ।
कूष्माण्डमज्जामिलितैस्सत्वग्बीजैस्सजीरकैः पटुभिः ।
शुष्काः करतलवटकाः शुद्धाङ्गारैर्विपाचिता लघवः ॥
आर्द्रकजीरकरामठधनिकाढ्याः श्लेष्मनाशना रुच्याः ॥
वींवडे ।
कृताश्च निम्बकुसुमैः सतिलैः पटुसंयुतैः ।
वटकाः कफपित्तघ्नाः कृमिव्रणविनाशिनः ॥
निम्बपुष्पवटकाः ।
रचिताश्च वज्रवल्या तिलरामठलवणजीरकैर्वटकाः ।
सुष्ठुपुरीषा रुच्या अर्शोघ्ना गुल्मवह्निमान्द्यहराः ॥
काण्डवेलीवडे ।
एवं सूरणवटकान् कुर्याद्विद्याच्च तद्गुणांस्तद्वत् ।
सूरणवडे ।
पक्वामलकफलानां पिष्टेन भृष्टतण्डुलैस्सतिलैः ।
चूर्णीकृतैस्सलवणैस्सहिङ्गुभिश्चन्द्रबिम्बसदृशैः ॥
लघवः कृतास्तु वटकाः पित्तं हरन्त्यपहरन्ति मेहं च ।
चक्षुष्या अतिरुच्या वृष्या दोषघ्नजाठराग्निकराः ॥
आवळवडे ।
कदलीकुसुमक्षोदैर्जीरकैस्तिलमिश्रितैः ।
मरीचक्षोदलवणैरेकध्यं वटकाः कृताः ।
तैलभृष्टा रुचिकराः पित्तला वातनाशनाः ॥
कदलीपुष्पवटकाः ।
१. T₂. P₁. P₂. स्सबीरपटुभिश्न ।