भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 49, कुल 358 में से
संदर्भ में पढ़ें३६. भोजनकुतूहले
कांञ्जिकेषु विनिधिप्ता वटका माषसम्भवाः ।
वातघ्ना रोचका हृद्याः कफपित्तप्रकोपनाः ॥
काञ्जिबटकाः ।
आम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् ।
तन्नीरे कृतसंस्कारे वटकान् मज्जयेत् कृती ।
आम्लिकावटकास्तेषु रुच्या वह्निप्रकोपनाः ॥
अपि च —
चिञ्चातोये विमिश्रा गुडलवणयुता घ्नन्ति वै पित्तमेते
तृष्णामूर्च्छाभिघातज्वरजठरहराः क्षुद्ररोगापहाश्च ।
राजीचूर्णेन मिश्राः कफपवनहरा रोचका दीपनास्स्यु-
र्मन्दाग्निव्ध्वंसकाश्चानिलविषशमना भुक्तमन्नं पचन्ति ॥
आम्लिकाराजीवटकाः ।
माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंयुताः ।
तथा विरचिता वस्त्रे वटिकास्साधुशोषिताः ॥
तलितास्तिलतैले वा घृते वा सुप्रलोहिताः ।
वटकस्य गुणैर्युक्ता ज्ञातव्या रुचिदा भृशम् ॥
माषवटी ।
४कूष्माण्डार्द्रकमरिचैर्जीरकासिन्धूत्थमोथिकासहितैः ।
पिष्टैर्माषदलोत्थैर्विहिता वटकाश्च योगिभिर्भक्ष्याः ॥
कूष्माण्डवटी ज्ञेया पूर्वोक्तवटिकागुणा ।
विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ॥
तथा —
निस्तुषैर्मुद्गमाषैश्च कूष्माण्डमज्जसंयुतैः ।(?)
शुष्काश्च वटकाः पक्वा रुच्यारोचकनाशनाः ॥
१ J1. adds the name: आम्लिकावटकाः ।
२ J1. राजीवटकाः ।
३ P1. P2. माषवटी । ओटवजीति नामान्तरम् ।
४ Bh. omits this verse.