सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 152, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 152

प्रथमपरिच्छेदः। १४१
एषा शिखरिणी युक्ता प्रदीप्तिबलवर्धिनी ।
सदा पथ्या नियोज्या च क्षीणे देहे च पुष्टिदा ॥
आयुःप्रवर्धनी चैव सर्वरोगप्रमर्दिनी ॥
इत्यपरा शिखरिणी ॥
सुजातं दधि संयोज्य वस्त्रे बद्ध्वा सुपीडितम् ।
नानापुष्पफलारम्भं कुर्यादतिमनोहरम् ॥
कपित्थमातुलैलासारैर्वारुकबीजकैः ।
शर्कराशुण्ठिसामुद्रमरीचैरेकसंयुतैः ॥
पूतं दधिरसं श्रेष्ठं सुघृतं शोधितं पटे ।
लवणेन समायुक्ता शिखरिण्यमृतोपमा ॥
रसाला सर्वरोगघ्नी रक्तपित्तनिबर्हिणी ।
दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा ॥
रक्तपित्ततृषादाहान् प्रतिश्यायं विनाशयेत् ।
इति रसाला शिखरिणी ॥
नारङ्गं दाडिमं स्यात्पद्ममधुकयुतं मातुलुङ्गस्य तोयं
द्राक्षातोयं समांशं गुडदधिसहितं शर्करा राजिमिश्रम् ।
शुभ्रे पट्टे च घृष्ट्वा मरिचकसहितं सैन्धवं वाप्य तद्व-
निष्पीड्यं सर्वमेतद् भवति शिखरिणी राजभोज्यैकयोग्यो ॥
इयमन्या शिखरिणी ।
मातुलुङ्गसिताजाजीमरीचार्द्रकनागरैः ।
कर्पूरसलिलैर्युक्ता दधि पर्युषितैस्समा ॥
रसयोगेषु सर्वेषु बदरस्य समस्य च।
नागरस्य रसोन्मिश्रा सा रसालामृतोपमा ॥
१. T1. Gives a different reading also 'मोहरीराजिमिश्रम्' ।
२. T2. adds राजी मोहरी । अजाजीति वा पाठः तदा जीरकं पट्टे वस्त्रे वाप्य क्षिप्त्वा before इयमन्या शिखरिणी ।