भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 153, कुल 358 में से
संदर्भ में पढ़ेंप्रच्छे पटे च संसृष्टा वातरोगनिबर्हिणी ।
चन्द्रामृतस्राविणीयं नाम्ना शिखरिणी मता ॥
चन्द्रामृतस्राविणी ।
मातुलुङ्गकपित्थाम्लातित्तिडीकाम्लदाडिमैः ।
शर्कराराजिसंयुक्तैः शुचिपट्टे नियोजिता ॥
नागरामरिचाजाजिंचतुर्जातकभृंस्तृणैः ।
सुयुक्तार्द्रकसंयुक्ता स्साला सामृतोपमा ॥
सर्वरोगप्रशमनी दाहपित्तनिबर्हिणी ।
रक्तोद्रेककरी पथ्या सर्ववातानुलोमनी ॥
एषा शिखरिणी रम्या सुषेणेन विनिर्मिता ।
सुषेणशिखरिणी ।
तथा —
दधिसर्पिर्गुडैर्जाजिनागरार्द्रकयोजितैः ।
सचतुर्जातघृष्टैश्च रसालैषाऽमृतोपमा ॥
सर्वकृच्छ्रप्रशमनी सर्वातीसारनाशिनी ।
सुषेणदेवेन कृता रसालैषामृतोपमा ॥
इत्यपरा सुषेणशिखरिणी ।
निघण्टौ —
द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पल-
स्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाद्वयम् ।
मध्वाज्यं च युतं तदर्धमिलितैः संशोधिर्तर्योजिता
भाण्डे स्याद्दिमवासिता शिखरिणी श्रीकण्ठभोग्या गुणैः ॥
इति ।
॥ इति शिखरिणीप्रकरणम् ॥
अथ सरस्य मस्तु्नश्च गुणाः —
दध्नस्तूपरि यो भागो घनः स्नेहसमन्वितः ।
स लोके सर इत्युक्तो दध्नो वारि तु मस्त्विति ॥
१. P1 P2 चतुर्जातपभूतृणैः ।