भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 151, कुल 358 में से
संदर्भ में पढ़ें१४० . भोजनकुतूहले
अथ शिखरिण्यः -
अर्धाढकं सुचिरपर्युषितस्य दध्नः
खण्डस्य षोडशपलानि शशिप्रभस्य ।
सर्पिः पलं मधु पलं मरिचं द्विकर्षं
• शुण्ठ्याः पलार्धमपि वार्धपलं चतुर्णाम् ॥
श्लक्ष्णे पटे ललनया मृदुपाणिघृष्टे
कर्पूरचूर्णसुरभीकृतचारुसंस्था ।
एषा वृकोदरकृता सरसा रसाला
आस्वादिता भगवता मधुसूदनेन ॥
इति भीमसेनशिखरिणी ॥
अन्यत्रापि,
आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां
शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किञ्चिच्च किञ्चित् क्षिपेत्
दुग्धेनार्धघटेन मृन्मयनवस्थाल्यां दृढं स्रावये-
देलाबीजलवङ्गचन्द्रमरिचैर्यौग्यैश्च तद्योजयेत् ॥
एषा यैर्न वसन्तवर्जितदिने संसेव्यते नित्यश-
स्तस्य स्यादतिवीर्यवृद्धिरनिशं सर्वेन्द्रियाणां बलम् ।
ग्रीष्मे तथा शरदि ये रविशोषिताङ्गा
ये च प्रमत्तवनितासुरतातिखिन्नाः ।
ये चापि मार्गपरिसर्पणशीर्णगात्रा-
स्तेषामियं वपुषि पोषणमाशु कुर्यात् ॥
इत्यन्या शिखरिणी ॥
त्रिंशत्पलानि दध्नश्च त्वगेलार्धपलं तथा ।
मध्वाज्यस्य पलार्धं च मरीचानां पलार्धकम् ॥
पलान्यष्टौ च खण्डस्य पटे शुक्ले च धारयेत् ।
कर्पूरवासिते भाण्डे छायायां स्थापयेदिदम् ॥