सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 150, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 150

प्रथमपरिच्छेदः । १३९
अथ निस्सारदधिगुणाः —
दधि त्वसारं रूक्षं च ग्राहि विड्भेदि वातलम् ।
दीपनीयं लघुतरं सकषायं रुचिप्रदम् ॥
दधिविषयाः —
ग्रहण्यां पीनसे मूत्रकृच्छ्रे च विषमज्वरे ।
अरोचके च मन्दाग्नौ शस्यते दधि सर्वदा ॥
लवणमरिचसर्पिःशर्करामुद्गधात्री-
कुसुम॑रसविमिश्रं वा तदद्यात् नित्यम् ।
न च शरदि वसन्ते नोष्णकाले न रात्रौ
न दधि कफविकारे पित्तरोगे तथाद्यात् ॥
अन्यच्च,
एलासैन्धवशर्करामरिचकैर्धात्रीगुडैः सर्पिषा
पथ्यं स्याद्वरमुद्गसूपसहितं संसेवनीयं दधि ।
नैवोष्णं बहुपिच्छलं च न शरद्ग्रीष्मे वसन्ते हितं
पित्तासृग्ज्वरकुष्ठदं भ्रमकरं वीसर्पदं चान्यथा ॥
दधि त्रिकटुविमिश्रं राजिकाचूर्णयुक्तं
कफहरमनिलघ्नं वह्निसन्धुक्षणं च ।
तुहिनशिशिरकाले सेवनीयं च पथ्यं
भवति सदशकायो रूपवान् सत्त्ववांश्च ॥
सगुडदधि सुखोष्णं धौतवस्त्रेण सम्यग्
युवतिकरविलासैर्गालितं धूपितं च ।
शिशिरकिरणविश्वाजाजिचूर्णेन मिश्रं
त्वधिकतरविलासैः सेवनीयं हितं च ॥
मधुरं मध्ययेच्चैतदत्यम्लं वर्जयेत् सदा ।
मधुरं दधि रोगघ्नमत्यम्ल रोगकारणम् ॥
१. T₂ तु कटु, and adds कटु त्रिकटु before the next verse.
२. T₁ शुण्ठीजीर and adds शिशिरकिरणः कर्पूरः before the next verse.