सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 149, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 149

. १३८ भोजनकुतूहलं
अथ हस्तिन्याः —
हस्तिनीदधि लघूष्णकषायं
पक्तिशूलशमनं रुचिदं च
दीप्तिदं लघु बलासनाशनं
वीर्यवृद्धिकरणं बलप्रदम् ॥
इति हस्तिन्याः ।
अथ स्त्रियाः —
विपाके मधुरं बल्यमम्लं सन्तर्पणं गुरु ।
चक्षुष्यं ग्रहदोषघ्नं दधि स्त्रीस्तन्यसम्भवम् ॥
इति स्त्रियाः ।
आग्नेयमेव सर्वेषां गव्यं दधि गुणोत्तरम् ।
वातघ्नं कफकृत्सर्वं बृंहणं च विपाक्तिहृत् १ ॥
२ कुर्याद्भक्ताभिलापं च दधि मस्तूपरिस्थितम् ।
सशर्करं दधि श्रेष्ठं तृष्णापित्तास्रवातनुत् ॥
सगुडं वातनुद् वृष्यं बृंहणं तर्पणं गुरु ।
अथ दधिमण्डगुणाः —
दध्नो मण्डो गुरुर्वृष्यो विज्ञेयो बलवर्धनः ।
वस्तेर्विशमनश्चापि कफपित्तविनाशनः ॥
इति मण्डगुणाः ॥
१. P1. P2. विषाक्ति.
२. P1. P2. कुर्याद्भक्ताभिलापम्.