बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 196, कुल 366 में से
संदर्भ में पढ़ें१६४ शुल्बसूत्रम् [तृतीयो-
मात्रेण प्राक्शिर इव निरूहतोति । तस्यावान्तरदिशः पादानि वेष्टका आयातयति।
स एष कूर्मचिद् ब्राह्मणो मध्ये उत्पृष्ठः परिकृष्यत इति ॥ १४१ ॥
[ इति परिमण्डलकूर्मचिदुपधानप्रकारः । ]
अथ हैक एकविधप्रभृतीन् प्रउगादीन् ब्रुवते ॥ १४२ ॥
अथ हैक इति । एकविधप्रभृतीन् षड्विधपर्यन्तान् ॥१४२॥
अथ केचित् पठन्ति अथ ह इति । अथहैकविधप्रभृतीन् अपक्षपुच्छांश्चिन्वन्त
(बौ० शु० २।१५ ) इत्यारभ्य एकविधादीनां अकरणं प्रतिपाद्य, तस्मात् सप्तविध एव
प्रथमोऽग्नि (बौ० शु० २।२१ ) रिति सप्तविधस्याग्नेः प्रथमाग्नित्वं प्रतिज्ञातं, तत्
सप्तविधप्रशंसापरमिति मन्वानाः केचिदाचार्याः प्रउगादीन् पक्षपुच्छरहितान् अग्नीं-
श्चेतव्यान् ब्रुवते ।
तत्र एकविधाग्नौ पुरुषप्रमाणेण वेणुना समचतुरस्रं कृत्वा प्रउगादिकरणम्।
द्विपुरुषविधाग्नौ पुरुषाङ्गुष्ठोर्द्वाभ्यां हत्वा तस्य मूलमानीय चतुरस्रं कृत्वा प्रउगादि-
करणम् । एवं त्रिविधादिषु द्रष्टव्यम् । तत्र एकविधादिषु प्रउगादीनां पक्ष-
पुच्छादिरहितानां आकृतिविकाराभावात् सप्तविधे यदुक्तमिष्टकाकरणञ्च तदेवात्र
प्रत्येत्यव्यम् ॥ १४२ ॥
समचतुरश्रानेक आचार्याः ॥ १४३ ॥
समचतुरश्रानिति । समचतुरस्राकारान् ब्रुवते ॥१४३॥
समचतुरश्रानिति । एके आचार्या एकविधप्रभृतीन् अग्नीन् समचतुरस्राकारां-
श्चेतव्यान् इति ब्रुवते । न प्रउगादीन् गुणविकारानित्यर्थः ॥ १४३ ॥
तस्य करण्या द्वादशेनेष्टकाः कारयेत् । तासामर्ध्याः
पाद्याश्च ॥ १४४ ॥
समचतुरश्रपक्षे करणाण्याह--तस्येति । तस्याग्नेः करण्या द्वाद-
शेनेष्टकाः कारयेत्। तासां द्वादशानामर्ध्याः तिर्यग्भेदाः । पाद्याः अर्ध्यायास्ति-
र्यग्भेदाः समचतुरश्राः कार्याः । एवं त्रिप्रकाराभिरिष्टकाभिर्भेदपरिहारे-
णोपधानं कर्तव्यम् ॥१४४॥
अस्मिन् पक्षे करणाद्याह-तस्येति । तस्याग्नेः करण्या द्वादशेनेष्टकाः कारयेत्।
तासामिति । तासां द्वादशकरणीनां अर्ध्यास्तिर्यग्भेदाः पाद्याश्च । अर्ध्यायास्तिर्यग्भेदे
समचतुरस्राश्च कार्या इत्यर्थः । एवं त्रिप्रकाराभिरिष्टकाभिर्भेदपरिहारेण उपधानं
कर्त्तव्यम् ।