सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 177, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 177

प्रथमे पृथ्वनीकपार्श्वखण्डे पूर्वकृतचिह्नाभ्यामारभ्यार्जवेनापरतिर्यङ्मान्या
सह त्रेधा लिखेत् । एवञ्चास्मिन् खण्डे दक्षिणपार्श्वे एका अध्यर्धप्रउगाकारेष्टका
तत उत्तरपार्श्वे प्राक्प्रत्यग्दीर्घे चतुररश्रेष्टके मध्यखण्डे दक्षिणे एका अर्ध-
प्रउगेष्टका पार्श्वे एका दीर्घचतुरश्रेष्टका तृतीयखण्डे चुबुकप्रदेशे एका
अर्धप्रउगाकारेष्टका आहत्यास्मिन् खण्डे षट्, एव मुत्तरखण्डेऽपि षडिष्टकाः
कुर्यादिति ।
यद्यपि सूत्रे पञ्च प्रउगाणि कृत्वा तेष्वेकामनूचीनां द्वेधा विभज्य
तयोरुपधानमिति न प्रतीयते तथापि प्रउगखण्डयोः पार्श्वयोरुपधान
मुक्त्वा मध्यक्षेत्रे चतुरश्रस्य बृहतोभिर्दीर्घचतुरश्राभिस्तदर्धाभिश्चोपधान-
विधानाद् दीर्घचतुरश्रत्वं गम्यते । तच्च पञ्च प्रउगकरणे उपपद्यते, नान्य-
थेति । ते द्व इति। ते षडिष्टकाः। ते द्वे खण्डे प्रत्यगग्रे पार्श्वयोः दक्षिणोत्तर-
पार्श्वयोरुपदध्यादित्यर्थः । एवञ्च भागद्वयव्यासं षड्भागायामं दीर्घचतुरश्रं-
मध्ये संपद्यते । तत्रोपधानार्थमिष्टकाकरणमाह—आगतृतीयायामा
इति । भागृतीयायामाः तिलतृतीयांशसहिताष्टाविंशत्यङ्गुलायामाः,
चतुर्थव्यासाः सप्ततिलाधिकैकविंशत्यङ्गुलव्यासाः दीर्घचतुरश्रा इष्टकाः
कारयेत् । तासामिति । तासां बृहतीनामर्ध्यास्तिर्यग्भेदाः आसामर्धे
भिन्नाः सप्ततिलाधिकैकविंशत्यङ्गुलदीर्घाः । (सार्धचतुस्तिलदीर्घाः सार्धचतु-
स्तिलचतुर्दशाङ्गुलदीर्घाः) सार्धचतुस्तिलचतुर्दशाङ्गुलव्यासाः अर्धेष्टकाः
कार्या इत्यर्थः । ता अन्तयोरिति । ता अर्धेष्टकाः अन्तयोः पूर्वापराग्र-
प्रदेशयोः दक्षिणोत्तरदीर्घा अष्टावष्टावुपधाय शेषमग्निं बृहतीभिः प्रच्छाद-
येत् । उपहितेष्टकानां मध्ये क्षेत्रं षट्त्रिंशच्छतेष्टकाभिः प्रागायताभिः
प्रच्छादयेदित्यर्थः । आहत्य चतुःषष्टिशतेष्टकाः सम्पन्नाः । तत्र द्विशतसंख्या-
पूरणार्थमाह--अर्धेष्टकाभिरिति । श्रोण्यंसेषु नव नव बृहतीश्चतुरश्रकृता
उद्धृत्याष्टादशाष्टादशार्ध्या उपदध्यात् । एष द्विशतः प्रस्तारः ॥१२६॥
अपरस्मिन्निति । विधिवक्ष्यते । अग्निक्षेत्रे भागप्रमाणव्यासानि षड्भागप्रमा-
णायतानि पञ्च महाप्रउगाणि शेरते । तत्र प्रत्यगग्राणि त्रीणि । प्रागग्रे द्वे । तेषां महा-
प्रउगाणां प्रउगद्वयमिह विवक्षितम् । अनूचानमिति प्रउगविशेषणम् । षड्भागायत-