सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 176, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 176

प्रउगाणि सर्वोऽग्निः संगृह्यीयादिति । अत्र आत्मनि मध्ये दक्षिणोत्तरां लेखामलिख्य
पूर्वार्धे प्रत्यगग्राणि षट् प्रागग्राणि पञ्च । पश्चिमार्धे प्रत्यगग्राणि पञ्च प्रागग्राणि
चत्वारि एवं विंशतिः । एवं शतद्वयसम्पत्तिः ।
अयम्प्रकारः । अग्निक्षेत्रं तिलद्वयोननवपञ्चशताङ्गुलायां सार्धचतुः
पञ्चाशच्छतद्वयाङ्गुलं पुरस्ताद् व्यासं द्वादशतिलोनसप्ततिशताङ्गुलपश्चिमतिर्यङ्मानीकं
एकतोऽणिमदीर्घचतुरस्रं विहृत्य इष्टकाः कुर्यात् । तत्र द्वे करणे प्रउगमुभयतः प्रउग-
मिति । प्रउगस्य पृथ्वनीकं दशाङ्गुलं सार्धविंशतितिलम् । उभे पार्श्वे सार्धविंशतितिले
त्रिषष्ट्यङ्गुले । ते द्वे पृथ्वनीकप्रदेशाभ्यां सङ्गते उभयतः प्रउगम् ।
प्रथमेन करणेन अशीतिरिष्टकाः । द्वितीयेन विंशशतम् । उपधाने पूर्वस्मिन्
अनीके चतुर्विंशतिः प्रउगेष्टकाः प्रत्यगग्राः । ततः पश्चाद् उभयतःप्रउगाः त्रयोविंशतिः।
ततः पश्चाद् द्वाविंशतिः । तत एकविंशतिः । ततः पश्चात् प्रागग्रा विंशतिः प्रउगाः ।
ततः पश्चाच्च विंशतिः प्रत्यगग्राः । ततः उभयतःप्रउगा एकोनविंशतिः । ततः
पश्चादष्टादश । ततः सप्तदश । ततः अपरस्मिन् अनीके प्रागग्राः षोडश प्रउगाः ।
एवं उदीच्यो दश रीतयः । एष द्विशतः प्रस्तारः ॥ १२५ ॥
अपरस्मिन् प्रस्तारे प्रउगं मध्येऽनूचीनं विभजेत् । तस्य
षड्धा विभागः । ते द्वे पार्श्वयोरुपदध्यात् । भागतृतीयायामा-
श्चतुर्थन्यासाः कारयेत् । तासामर्ध्यास्तिर्यग्भेदाः । ता अन्तयो-
रुपधाय शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेत् । अर्धैष्टकाभिः
सङ्ख्यां पूरयेत् ॥ १२६ ॥
अपरस्मिन् प्रस्तार इति । अग्निक्षेत्रे प्रागग्रे द्वे प्रउगे प्रत्यग्-
ग्राणि त्रीणि प्रउगाणि । एवं पञ्च समानि कृत्वा तत्रैकं
प्रत्यगग्रं प्रउगं मध्येऽनूचीनं प्राक्प्रत्यग्दीर्घं यथा भवति तथा
द्वेधा विभजेत् । अयमर्थः—पञ्चानां प्रउगाणां मध्ये एकस्य प्रउगस्य
पृथ्वनीकमध्यादारभ्य प्रउगाग्रपर्यन्तमार्जवेन लिखेदिति । तस्येति ।
तस्य दलद्वयात्मकस्य द्वेधा विभक्तस्य एकस्य प्रउगस्य षड्धा षोढा विभागः
प्रत्येकं कर्त्तव्यः । विभागप्रकारः । अत्राप्यनूचीनमित्यस्यानुवर्तमानत्वाद
द्वयोः खण्डयोः पृथ्वनीकमध्यादारभ्य खण्डद्वयाग्रपर्यन्तं पूर्ववदार्जवम् ।
अयमत्र विभागप्रकारः—एकस्मिन् खण्डेऽर्धप्रउगे पृथ्वनीके
समान्तराले द्वे चिह्ने कृत्वा पश्चादर्धप्रउगं समं तिर्यक् त्रेधा विभजेत् । तत्र