बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 160, कुल 366 में से
संदर्भ में पढ़ें१३० शुल्बसूत्रम् [ तृतीयो-
पश्चादिति । पश्चात् पुच्छस्थाने त्सरुर्भवति । तस्येति । तस्य त्सरोः । अर्धपुरुषः षष्टिर-
ङ्गुलयो दशाङ्गुलानि च । एवं सप्ततिरङ्गुलयः प्राची भवति । त्रिभागेन इति । अशी-
तिरङ्गुलय उदीची भवति । आत्मपश्चिमपार्श्वमान्या दक्षिणत उत्तरतश्चोभयत्र
पुरुषमात्रमवशिष्य मध्यतोऽशीत्यङ्गुलदक्षिणोत्तरं सप्तत्यङ्गुलायतं ( दीर्घचतुरस्रं )
पश्चात् त्सरुर्भवतीत्यर्थः । इति करणो मानसमाप्त्यर्थः । एवमिति । अस्याग्नेः षष्ठीनां
प्रथमकरणत्वात् ताभिः संपत्तिरुच्यते । आत्मनि षट्पञ्चाशच्छतद्वयं षष्ठ्यः शेरते ।
त्सरौ चतुर्दश । एवं सारत्निप्रादेशः सप्तविधः सप्ततिशतद्वयं षष्ठ्यः संपद्यन्ते ॥ ११०॥
तस्येष्टकाः कारयेत् पुरुषस्य षष्टयस्ता एवैकतोऽध्यर्धा-
स्तासामर्धास्तिर्यग्भेदाः पुरुषस्य चतुर्थ्य इति ॥ १११ ॥
तस्येष्टकाः कारयेदित्येतत्सूत्रमारभ्य चतुरश्रद्रोणचयनप्रतिपादक-
सूत्रपर्यन्तं सूत्रभङ्गीकृतव्याख्यानं दूषयितुं वाक्यतो नोपपद्यते, तथा हि-
तस्येष्टका इति । षष्ठ्यः विंशत्यङ्गुलास्ता एवैकतोऽध्यर्धास्त्रिंशदङ्गुल-
पार्श्वमान्यस्तासामर्धास्तिर्यग्भेदाः । पुरुषस्य चतुर्थ्य इति । षष्ठ्यः
विंशत्यङ्गुलाः ता एवैकतोऽध्यर्धास्त्रिंशदङ्गुलपार्श्वमान्यस्तासामर्धा-
स्तिर्यग्भेदाः विंशत्यङ्गुलपार्श्वमानीकाः दशाङ्गुलतिर्यङ्-मानीकाः चतुर्थ्य-
स्त्रिंशदङ्गुलाः । तत्र द्विचत्वारिंशत्षष्ठ्यः द्विपञ्चाशतसप्तशतमध्यर्धा
द्विषष्टिशतमध्यर्धाश्चत्वारिंशच्चतुर्थ्यः । तत्र चोडानाकसदः अष्टा अध्यर्धा
द्वे (अर्ध्ये ?) इति करणः (प्र) करणसमाप्तिसूचकः ॥ १११ ॥
अथेष्टकानां विकाराः । तस्येष्टका इति । षष्ठ्यो विंशत्यङ्गुलाः । ता एवैकतो-
ऽध्यर्धाः त्रिंशदङ्गुलपार्श्वमान्यः । तासामर्धास्तिर्यग्भेदाः विंशत्यङ्गुलपार्श्वमानीका
दशाङ्गुलतिर्यङ् मानीकाः । चतुर्थ्यस्त्रिंशदङ्गुलाः । तत्र द्विचत्वारिंशत् षष्ठ्यः ।
द्विपञ्चाशत्सप्तशतमध्यर्धाः । द्विषष्टिशतमध्यर्धाः । चत्वारिंशच्चतुर्थ्यः । तत्र चोडाना-
कसद अष्टावध्यर्धाः । द्वे अर्ध्ये । इति करणः करणसमाप्तिसूचकः ॥ १११ ॥
तासां त्सरुश्रोण्यन्तरालयोः षट् षट् षष्ठीरुपधाय शेष-
मग्निं बृहतीभिः प्रच्छादयेत् । अर्धैष्टकाभिः सङ्ख्यां
पूरयेत् ॥ ११२ ॥
तासामिति । अध्यर्धाभिः प्राचीभिः प्रागायताभिः प्रच्छादयेत् । षोडश
हीयन्ते । तत्र अर्धैष्टकाभिरिति । भेदपरिहारेणोभयस्मिन् पार्श्वे चत-
स्रश्चतस्रोऽध्यर्ध्या उद्धृत्य द्वादश द्वादशार्ध्या निधेयाः । एवमुपधाने भेदं संभवं