बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 159, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं १२९
न्तरत एवमेव स्वयमातृण्णायाः । अथाभितः स्वयमातृण्णाया मध्ये नाभिभिव
करोति । तस्यानुदिशमवान्तरदिशमराणि च नेमिमिवेष्टका आयातयति । स एष
रथचक्रचिद् भ्रातृव्यवतः परिकृष्यत इति ( बौ. श्रौ. सू. १७।२९ पृ : ३०७ ) । तत्र
परिकर्षणं मण्डलकर्षणम् ॥ १०७ ॥
[ इति साररथचक्रचिदुपधानप्रकारः । ]
द्रोणचितं चिन्वीतेति विज्ञायते ॥ १०८ ॥
साररथचक्रचयनमुक्त्वा द्रोणचयनप्रकारमाह द्रोणचितमिति ॥१०८॥
द्रोणेति । द्रोणाकारमिव चिन्वीतेति विज्ञायते ॥ १०८ ॥
द्वयानि तु खलु द्रोणानि भवन्ति चतुरश्राणि परिमण्डलानि
च । अविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ १०९ ॥
यद्यपि श्रुतौ सामान्यतः द्रोणचितं चिन्वीतेति वर्तते तथापि लोके
द्विविधानि द्रोणानि अन्नसाधनत्वेन दृष्टानीत्यभिप्रायेणाह—
द्वयानीति ॥ १०६ ॥
द्वयानीति । द्वयानि द्विप्रकाराणि लोके प्रसिद्धानि । त्सरुमन्ति चतुरस्राणि ।
परिमण्डलानि ओष्ठवन्ति । एतत् सर्वं रथचक्रे व्याख्यातम् ॥ १०६ ॥
अथाग्निं विमिमीते । चतुरश्र आत्मा भवति । तस्य त्रयः
पुरुषास्त्रिभागोनाः पार्श्वमानी भवति । पश्चात् त्सरुर्भवति ।
तस्यार्धपुरुषो दशाङ्गुलानि प्राची । त्रिभागोनः पुरुषः उदीची ।
एवं सारत्निः प्रादेशः सप्तविधः संपद्यते ॥ ११० ॥
तस्येति । तस्यात्मनस्त्रयः पुरुषा एकपुरुषतृतीयेन भागेनोनाः त्रिभा-
गोना विंशत्यधिकत्रिशताङ्गुलप्रमाणका पार्श्वमानी भवतीत्यर्थः । पश्चात्
त्सरुर्भवतीति । त्सरुः पुच्छस्थाना भवतीत्यर्थः । तस्यार्धेति । प्राक् प्रत्यक्
सप्तत्यङ्गुलदीर्घं दक्षिणोत्तरमशीत्यङ्गुलदीर्घमेवं दीर्घचतुरश्रं कुर्यात् ।
आत्मना अव्यवहिततया कुर्यादित्यर्थः । एवं सारत्निप्रादेशः सप्तविधः
संपद्यते ॥ ११० ॥
चतुरश्रति । तस्याग्नेः समचतुरस्र आत्मा भवति । तस्येति । तस्य आत्मनः ।
त्रयः पुरुषास्त्रिभागोनाः द्वौ पुरुषौ तृतीयः तृतीयभागहीनः पुरुषः । न प्रत्येकम् ।
एवं त्रिभागोनास्त्रयः पुरुषाः । विंशत्यधिकशतत्रयाङ्गुला पार्श्वमानी भवति ।
१७
Nepal Sanskrit University, Balmeeki Campus, Kathmandu