सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 154, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 154

१२४ शुल्बसूत्रम् [ तृतीयो-
नेमिः शेषाः ॥ ९९ ॥
नेमिरिति । नेमिः रथचक्रान्त्यप्रदेशः । पञ्चचत्वारिंशच्छतेष्टका
नेमिः । ताभिर्नेमिं कुर्यादित्यर्थः ॥ ९९ ॥
नेमिरिति । शेषाः विनियुक्तावशिष्टाः पञ्चचत्वारिंशच्छतमिष्टकाः नेमि-
र्भवन्ति । रथचक्रस्य बाह्यावयवो नेमिः ॥ ९९ ॥
नाभिमन्ततः परिलिखेत् ॥ १०० ॥
नाभिमिति । नाभ्यन्तरं कृतं चतुरश्रं परिमण्डल(१।४७)मित्यादिना
परिमण्डलं कुर्यात् । यद्यपि परिलिखेदिति सामान्यनिर्देशाद् यथा कथञ्चि-
दुपपद्यते, तथापि लोके रथचक्रनाभिमण्डलाकारदर्शनादिहापि परिमण्डलं
कर्त्तव्यमिति गम्यते ॥ १०० ॥
नाभिमिति । नाभिः षोडशमध्यमा (३।९६) इत्युक्तम् । तां नाभिमन्ततः सर्वतो
लिखेत् । अक्ष्णयार्ध (१।४७) मित्यादिना ॥ १०० ॥
नेमिमन्ततश्चान्तरतश्च परिलिख्य नेमिनाभ्योरन्तरालं
द्वात्रिंशद्धा विभज्य विपर्यासं भागानुद्धरेत् । एवमावाप
उद्धृतो भवति ॥ १०१ ॥
नेमिमिति । नेमिमन्तरं ततः परिलिखेत् नेमेरन्तरं तस्य नेमेरन्तरं(१)
तस्य नेमेरन्त्यप्रदेशे च परिमण्डलद्वयं कुर्यात् । पूर्वोक्तन्यायेनान्तप्रदेशे
परिमण्डलं भवति । लोके मध्ये परिमण्डलाभावेऽपि रथचक्रकरणसम्भ-
वादिहापि मध्ये परिमण्डलकरणे प्रमाणं नास्तीति चेन्न, अत्रापि लेखन-
विधानाच्चतुरश्रातिरिक्तं यत्किञ्चित्कर्त्तव्यमुभयत्रापि परिमण्डलदर्शनाद-
विशेषादत्रापि परिमण्डलं भवति । अयमर्थः—अरवेद्यर्थं कृतं चतुरश्रं
परिमण्डलं कुर्यात् । एवं नेम्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं
त्रीणि मण्डलानि भवन्ति । ननु मण्डलत्रैविध्ये प्रमाणाभावात् प्रत्युत
चतुःषष्टिरराश्चतुःषष्टिर्वेदिरिति पृथग्, नेमिः शेषा इति पृथगुपदेशाच्च-
त्वारि मण्डलानि भवन्ति । अथ परिमण्डलमूलभूतचतुरश्रचतुष्टयासम्भवाद्
न परिमण्डलचतुष्टयं सम्भवति । अस्तु वा चतुरश्रचतुष्टयसम्भवः
अथापि अरार्थकृतपरिमण्डलादुपरि वेद्यर्थं परिमण्डलं कर्त्तव्यम् । तस्या-