बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 141, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ११३
तत्र अरत्निमात्रेण प्राक् शिर इव निरूहतीत्यस्य व्याख्यानाभिप्रायेणोक्तं शिरसि
पञ्चोपद्ध्यादिति ॥ ७७ ॥
[ इति कङ्कचिदुपधानप्रकारः । ]
अलजचित एतेनात्मा शिरः पुच्छञ्च व्याख्यातं पादा-
वपोद्धृत्य ॥ ७८ ॥
अलजचिति विशेषं वक्ष्यन् कङ्कचित्समानमङ्गमाह—अलज-
चितमिति । (अलजचितं चिन्वीत । इत्यधिकः पाठः शुल्बमीमांसायाम् ।)
पादाविति । कङ्कचिति सार्धपञ्चमीक्षेत्रौ यौ पादावुक्तौ तावपोद्धृत्य
पक्षयोर्योजयेत् । पञ्चमीक्षेत्रे द्वेधा विभज्य अर्धन्तु अपनामपूरणार्थं
निदध्यात् ॥ ७८ ॥
अलजचित इति । पादौ वर्जयित्वा अनन्तरोक्तेन कङ्कचिता अलजचित
आत्मा शिरःपुच्छञ्च व्याख्यातम् । अस्य पादौ न भवत इत्युक्तं भवति । अलजोऽपि
वयोविशेषः । पञ्चमीनां पञ्चाशद् द्वे चात्मनि । पञ्चदश पुच्छे । शिरसि पञ्चोपद्ध्या-
दित्यर्थः । क्षेत्रकरणमपि पूर्ववत् ॥ ७८ ॥
त्रिषष्टिर्दक्षिणे पक्ष उपदध्यात् । तथोत्तरे । पुरुषेण पक्षयो-
रपनामः। अपरस्मादपनामात् प्राञ्चमरत्निं मित्वा तस्मिन् स्पन्त्यां
नियम्यापरं पक्षपत्रापच्छेदमन्यायच्छेत् । एवं पञ्च पञ्चम्यः सार्ध्या
उद्धृता भवन्ति ॥ ७९ ॥
एवञ्च कङ्कचिदपेक्षया प्रत्येकमर्धपञ्चमीक्षेत्रमधिकं भवति । तथा च
पक्षयोः प्रत्येकं सार्धसप्ताधिकपञ्चाशत् क्षेत्रे संपद्यमाने अपनामविशेषसिद्ध्यर्थं
प्रत्येकं सार्धं पञ्चमीक्षेत्रं योजनीयमित्याह—त्रिषष्टिरिति । अपनामविशेषं
दर्शयति—अपरस्मादिति । एवमपच्छेदे क्रियमाणे प्रतिपक्षं यत्सार्धं
पञ्च पञ्चमीक्षेत्रमवनमनार्थं योजितं तत्यक्तं भवति । यत्पूर्वमर्धपञ्चमी-
क्षेत्रनिहितं तद् द्वेधा विभज्य पक्षापनामप्रदेशयोः द्वाभ्यां प्रादेशः सप्तविधः
सम्पद्यते ॥ ७६ ॥
पक्षयोर्विशेषमाह । त्रिषष्टिरिति । द्वितीयार्थे प्रथमा । सामर्थ्यात् षडरत्निव्यासं
दशारत्निदीर्घं उदगायतं दीर्घचतुरस्रं कृत्वा पुरुषेण पक्षयोरपनाम इति वक्ष्यमाण-