बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 140, कुल 366 में से
संदर्भ में पढ़ें११० शुल्बसूत्रम् [ तृतीयो-
आत्मनि षट्पञ्चाशत् । पुच्छेऽष्टादश । पादयोरष्टौ । षट् शिरसि । पक्षयो-
र्द्वादशशतम् ।
अस्मिन् प्रस्तारे षडधिकं शतं पञ्चम्यः । चतुश्चत्वारिंशदर्ध्याः । चतस्रः
पाद्याः । अष्टत्रिंशदर्ध्यर्ध्याः ।
अथ अपरः प्रस्तारः । शिरोऽग्रे प्रागग्रा पाद्या । तस्याः पश्चात् प्राक्प्रत्यगग्रिके
अक्ष्णयासंगते द्वे अध्यर्धे । तयोः पश्चिमा आत्मानं अर्धार्त्निना व्याप्ता । तयोरध्यर्ध-
योरभितः शिरसि चतस्रश्चतस्रः पाद्याः । तासां पश्चात् प्रागरत्निपाश्र्वे प्रागुदक् प्राग्-
दक्षिणा सविशेपे । आत्मशिरःसन्धौ द्वे अध्ये । एवं शिरसि त्रयोदशेष्टकाः ।
तासां पश्चाद् अध्यर्धाद्वयं दक्षिणोत्तरं अक्ष्णयासंगतम् । पार्श्वयोरर्ध्ये । ततः
पश्चात् पक्षाप्यययोरुभयत्र