सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 135, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 135

द्वे द्वे शिरसः पार्श्वयोः ॥ ६४ ॥
द्वे द्वे इति । शिरसः पार्श्वयोर्द्वे द्वे उभयोः ॥ ६४ ॥
द्वे द्वे इति । दक्षिणोत्तरपार्श्वयोः दक्षिणोदगग्रे अन्तर्दीर्घपार्श्वे शिरसोऽप-
च्छेदसक्तिगताग्रे एकैकां उभयीं, तयोः पश्चाद् बाह्यदीर्घपार्श्वे दक्षिणोदगग्रे ताभ्यां
संश्लिष्टे उपदध्यात् ॥ ६४ ॥
पुच्छस्यावस्तादध्यर्धाः प्राचीर्यथावकाशम् । पार्श्वयोः पाद्याः
साष्टभागाः ॥ ६५ ॥
पुच्छस्यावस्तादिति । पुच्छस्यावस्तात् पश्चाद्भागे पश्चाध्यर्धाः
प्राग्दीर्घा यथावकाशमुपदध्यात् । पार्श्वयोरिति । पुच्छपार्श्वयोः पञ्चम-
भागीया ( पाद्या ? ) स्तस्या एवाष्टमभागौ चोपपदध्यात् ॥ ६५ ॥
पुच्छस्येति । पुच्छस्य पश्चिमान्ते पार्श्वयोरुभयत्र प्रादेशत्रयमवशिष्य मध्ये
पञ्च अध्यर्धाः प्रागायता उपदध्यात् । पार्श्वयोरिति । उपहितानामध्यर्धानां पार्श्वयोः
पञ्चमीपाद्याः पञ्चम्यष्टमभागसहिताः । तत्र पुच्छश्रोण्योः प्रागग्रे पश्चिमदीर्घ-
पार्श्वे द्वे पादेष्टके । तयोर्दक्षिणत उत्तरतश्च प्रत्यगग्रे द्वे । एवं चतस्रः पाद्याः ।
उभयत्र पाद्याद्वन्द्वस्य दक्षिणत उत्तरतश्च अध्यर्धामूलसंहितां एकैकामष्टमीं उपद-
ध्यात् । उभयत्रोपहितत्रिकस्य पुरस्ताद् अध्यर्धासमीपे पञ्चम्यर्ध्याक्षेत्रं परिशिष्टं
भवति ॥ ६५ ॥
पक्षयोञ्चाध्यर्धाः सावयवाः ॥ ६६ ॥
पक्षयोरिति । पक्षयोरध्यर्धाः सावयवा उपदध्यात् ॥ ६६ ॥
पक्षयोरिति । अवयवशब्देन दीर्घशूलपाद्ये उच्येते । नियमार्थं वचनम् ॥ ६६ ॥
शेषं यथायोगं यथासङ्ख्यं यथाधर्मञ्चोपदध्यात् ॥ ६७॥
शेषमिति । शेषमग्निं यथा आकृतिनिष्पत्तिर्भवति, यथासङ्ख्यं प्रस्तारं
यथा द्विशतमिष्टकाः संभवन्ति, यथाधर्म्यं यथा दक्षिणे पक्षे तथोत्तरे
पक्षेऽप्युपदध्यादित्यर्थः ॥ ६७ ॥
शेषमिति । अनुपहितक्षेत्रं यथायथं युज्यते । तथा यथासंख्यं यथा द्विशतपूर्त्तिः।
तथा यथाधर्मं यथाभिधर्मं रूपं पशुधर्मं भेदवर्जनादि अविनाशयन् उपदध्यात् ।
भेदपरिहारेण पशुधर्म इत्यपरिग्रहेण यत्र या इष्टकाः सम्भवन्ति तथा उपदध्यादि-
त्यर्थः । तत्रैवमुपधानम् ।
सन्धिरीत्या सह पुच्छे उदीच्यस्तिस्रो रीतयः । तत्र पुच्छाग्ररीत्यां दक्षिणान्ते
प्रागग्रा प्रत्यग्दीर्घपार्श्वा पञ्चमीपाद्या । तस्या उत्तरतो विपरीता । तयोरुत्तरतोऽष्टमी
१४