बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 134, कुल 366 में से
संदर्भ में पढ़ें१०४ शुल्बसूत्रम् [ तृतीयो-
शिरसि याः सम्भवन्ति ॥ ६२ ॥
शिरसोति । शिरसि याः संभवन्ति ता उपदध्यात् । अर्धे द्वे, सपाद-
पञ्चम्यौ द्वे । एवं प्रथमे प्रस्तारे उपरि द्रष्टव्यः । एवञ्च प्रतिपक्षं चतुः
पञ्चाशदिष्टकाः सम्पन्नाः प्रतियोज्यमानाः ॥६२॥
शिरसीति । द्वे अर्ध्ये द्वे सपादे इत्यर्थः । एवं सामान्येनोपधानमुक्तम् ।
अत्रैवमुपधानम् । पुच्छात्मशिरसां उदीच्यः पञ्चदशरीतयः । तत्र पुच्छाग्रे
मध्यतः षट् पञ्चम्यः । पार्श्वयोर्द्वे तदर्ध्ये । पूर्वस्यां मध्यतश्चतस्रः पञ्चम्यः । पार्श्व-
योर्द्वे तदर्ध्ये । तृतीयस्यां षडर्ध्याः । एवं चतुर्थी रीतिः । पञ्चमीपार्श्वयोर्द्वे मध्य-
तश्चतस्रः पञ्चम्यः । ततः षड्भिः षड्भिः पञ्चमीभिः षड् रीतयः । पञ्चमीवद्
द्वादशी । चतुर्थीवत् त्रयोदशी । शिरसि चतुर्दश्यां प्रागायते द्वे सपादे । पञ्च-
दश्यां शिरसोऽग्रे द्वे अर्ध्ये बर्हिर्विशेषे । पक्षे पत्रवर्ज्याः षड् रीतयः प्राच्यः । तत्र पक्ष-
मूलरीत्यां मध्ये पञ्च तिरश्च्योऽध्यर्धाः । पश्चात् पुरस्ताच्च द्वे अध्यर्धार्ध्ये । तस्या
दक्षिणतोऽप्येवम् । तस्या दक्षिणतो निर्णामसमीपरीत्यां द्वादश अध्यर्धार्ध्याः ।
निर्णामदक्षिणरीत्यामप्येवम् । ततो दक्षिणतो द्वे रीती पक्षमूलरीतिद्वयवत् । पक्षपत्रेषु
षड् अध्यर्धार्ध्या उदोच्यः । एवमुत्तरः पक्षः ।
आत्मनि षष्टिरिष्टकाः । विंशतिः पुच्छे । चतस्रः शिरसि । पक्षयोः षोड-
शशतम् ।
अस्मिन् प्रस्तारे चतुः पञ्चाशत् पञ्चम्यः । अष्टाविंशतिरर्ध्याः । द्वे सपादे ।
चत्वारिंशदध्यर्धाः । षट्सप्ततिरध्यर्धार्ध्याः ॥ ६२ ॥
अपरस्मिन् प्रस्तारे पूर्वयोः पक्षाप्यययोरेकैकामुभयीमुप-
दध्यात् । एकैकामपरयोः ॥ ६३ ॥
अपरस्मिन्निति । पूर्वयोः पक्षाप्यययोः पक्षात्मसन्ध्योर्मूलप्रदेशयोः
एकैकामुभयीमुपदध्यात् । एकैकामिति । अपरप्रदेशयोः पूर्वोक्तयोरेकैका-
मित्यर्थः ॥६३॥
अपरस्मिन्निति । पूर्वयोः पक्षात्मसन्ध्योरेकैकां उभयीं प्रागग्रां प्रत्यग्दीर्घपार्श्वां
पक्षस्थाध्यर्धार्ष्टमभागीयां उपदध्यात् । दीर्घपार्श्वेन अष्टाङ्गुलेन पक्षं प्राप्तामित्यर्थः ।
एकैकामिति । अपरयोः पक्षात्मसन्ध्योरेकैकां उभयीं प्रत्यगग्रां अध्यर्धार्ष्टमभागेन
पक्षं प्राप्तां उपदध्यात् ॥ ६३ ॥