सामग्री पर जाएँ
सर्वकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 112, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 112

८२ शुल्बसूत्रम् [ तृतीयो·
तस्यात्मा समचतुरश्रश्चत्वारः पुरुषाः । पक्षः समचतुरश्रः
पुरुषः । स तु दक्षिणतोऽरत्निना द्राघीयान् । एतेनोत्तरः पक्षो
व्याख्यातः । पुच्छं समचतुरश्रः पुरुषः । तमवस्तात् प्रादेशेन
वर्धयेत् । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥१०॥
तस्यात्मेति । तस्य चतुरश्रश्येनचितः । आत्मा पक्षपुच्छव्यतिरिक्त-
प्रदेशः । समचतुरश्रा इति । पुरुषचतुष्टयपरिमित इत्यर्थः । पुरुषद्वय-
प्रमाणेन सर्वतश्चतुरश्रं कुर्यादिति यावत् । पक्ष इति । पक्षपुच्छे सर्वतः
पुरुषप्रमाणे । आत्मनो दक्षिणोत्तरपश्चाद्भागे (अरत्निभ्यां ?) प्रादेशेन
(च ?) वर्धयेदित्यर्थः । एवं सारत्निप्रादेश इति । “यूपावटी-
याच्छङ्कोरर्धप्रक्रममवशिष्ट्यानुपृष्ठ्यं पुरुषं वेणुं निधाय छिद्रेषु शङ्कून्नि-
हत्योन्मुच्याऽपराभ्यां दक्षिणाप्राक् परिलिखेदान्ताच्चक्षुमिताच्चतुरश्र-
पूर्वान्तादुन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक् परिलिखेदा-
न्तादुन्मुच्य वेणुं मध्यमे शङ्कावन्त्यवेणोश्छिद्रं प्रतिमुच्योपर्य्युपरि लेखा-
समरे दक्षिणां वेणुं निधायान्त्यच्छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमवेणोश्छिद्रं
प्रतिमुच्य पूर्वापरे छिद्रे लेखान्तयोर्यत्र निपतितस्तत्र प्रतिष्ठाप्य छिद्रयोः
शङ्कून्निहन्ति, स पुरुषश्चतुरश्रः । एवं प्रदक्षिणं चतुर आत्मनि पुरुषा-
नवमिमीते । “पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे पक्षे” इति (बौधा.
श्रौ. सू. ) एवं पूर्वोक्तप्रकारेण सारत्निप्रादेशः अरत्निभ्यां प्रादेशेन च
सहितः सप्तपुरुषप्रमाणोऽपि संपद्यत इत्यर्थः ॥ १० ॥
तस्यात्मेति । प्रधाना वयवत्वात् पक्षपुच्छव्यतिरिक्तांश आत्मेत्युच्यते । आत्मनः
प्रमाणं द्विपुरुषप्रमाणकरणीकसमचतुरस्रमित्यर्थः । पक्ष इति । दक्षिणः पक्षः पुरुष-
प्रमाणकरणीकः समचतुरस्रः। आत्ममध्येन पक्षमूलमध्यसंधानम् । सत्विति ।
स पक्षः दक्षिणान्ते पुरुषमात्रायामेनाऽरत्निना द्राघीयान् दीर्घतरः । दक्षिणोत्तरेण
षडरत्निरित्यर्थः । पुच्छमिति । पुरुषप्रमाणकरणीकः। प्राञ्चमेन (२।१५) मित्युक्तत्वात्
पश्चात् पुच्छं भवति । मध्ये संधानञ्च ।
: तमवस्तादिति । पूर्वापरेणैकादशप्रादेशप्रमाण इत्यर्थः । एवमिति । आत्मा
चत्वारः पुरुषाः । पक्षपुच्छास्त्रयः पुरुषाः । पक्षयोररत्निभ्यां पुच्छे प्रादेशेन