बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 111, कुल 366 में से
संदर्भ में पढ़ेंअध्यायः ] बौधायनीयं ८१
षष्ठेन पुरुषस्य विंशत्यङ्गुलेन पुरुषक्षेत्रस्य षट्त्रिंशांशः। दशमेन प्रादेशेन पुरुषक्षेत्रस्य
शतांशः। इतिकरणः करणसमाप्त्यर्थः। एवं चत्वारि करणानि। प्रथमेन षण्णव-
तिरिष्टकाः। द्वितीयेन दशाधिकं षट्शतम्। तृतीयेन चतुस्त्रिंशाधिकं शतद्वयम्।
चतुर्थेन षष्टिः। तत्र चोडानाकसदश्चतस्रः पञ्चम्यः। षट् षड्भागीयाः ॥ ७ ॥
अथाग्निं विमिमीते ॥ ८ ॥
असिक्षेत्रमानमाह—अथाग्निमिति। असिः असिक्षेत्रम् ॥ ८ ॥
अथाग्निमिति। उख्यभस्मना संसृज्येष्टकाः कारयेदिति २४२) वचनाद्दीक्षित-
स्येष्टकाः कृत्वा अनन्तरं दीक्षान्त्यदिवसेऽग्निं विमिमीते। रात्रिभरणपक्षे अग्नि-
विमाने न दीक्षादिलक्षणा। अथाग्निं विमिमीत इति यत्रास्ति तत्र अथशब्दस्य
अयमर्थः ॥८॥
यावान् पुरुष ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति।
मध्ये तृतीयम्। यदमुत्र स्पन्द्यया करोति तदिह वेणुना
करोति ॥ ९ ॥
यावानिति। पुरुषः यजमानः। ऊर्ध्वं प्रसारितभुजो यावान् भवति
तावदन्तरालं ययोस्ते तावदन्तराले। छिद्रे करोति इति। पुरुषप्रमाणादुभयत-
श्छिद्रार्थं किञ्चिदधिकं वेणुं परिगृह्य पुरुषप्रमाणाद् बहिरेव छिद्रद्वयं कुर्या-
दित्यर्थः। मध्य इति। छिद्रयोर्मध्येऽपि वेणोश्छिद्रं तृतीयं करोति। ननु
उभयतःपाशया मध्ये चिह्नितया पुरुषमात्रया स्पन्द्ययापि क्षेत्रमानसम्भवे
किमुच्यते वेणोरिति ? अत आह—यदमुत्रेति। अन्यक्षेत्रमानादिषु
स्पन्द्यया यद् यत् करोति तदिहासिक्षेत्रमाने। “वेणुना विमिमीत” इति
श्रुतेरिति भावः ॥ ६ ॥
मानप्रकारमाह। यावानिति। यावत् प्रमाणं पुरुषो यजमान ऊर्ध्वबाहुः।
अनेन लौकिकपुरुष उक्तो भवति। यजमानारत्निना पारिभाषिकः पञ्चारत्निः।
इष्टकाकरणे यः पुरुषः परिगृहीतस्तेनाग्निं विमिमीते। (इष्टकाकरणे यः पुरुषः
अग्निमानेऽपि स एव भवति इति टिः)। तावदन्तराले पुरुषमात्रान्तराले ययो-
श्छिद्रयोस्ते तथोक्ते। प्रमाणात् किञ्चिदतिरिक्तं वेणुं परिगृह्य पुरुषप्रमाणमन्तरालं
यथा भवति तथा अन्त्योश्छिद्रं करोति। तत्र छिद्राभ्यन्तरार्धयोः पुरुषप्रमाणे-
ऽन्तर्भावः। मध्य इति। करोतीति शेषः। यदमुत्रेति। अमुत्र क्षेत्रकरणे। उभयतः
पाशस्थानीयेऽन्त्ये छिद्रे। मध्यच्छिद्रं लक्षणस्थानीयम् ॥ ९ ॥
११