बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 652, कुल 774 में से
संदर्भ में पढ़ें[ १७ । ३९, ४० । ] Digitized by Madhuban Trust बौधायनश्रौतसूत्रम् । ३१८
परेणाग्निमुदीचीनप्रतिषेवणामेरकाᳵ साध्वीवासामास्तीर्य¹
तस्यां प्राङ्मुख उपविशत्युत्तरतो नापित ' उत्तरत उपवर्ह-
णमा॑मध्यंदिनं भिक्षां दद्याद॑पीह² गां पचेदन्ना चेदस्य³ स्याद्-
वैतां³ पालाशीᳵ समिधमाज्येनाक्त्वा मध्यंदिने ऽभ्याद-
धाति ॥ ३९ ॥
इमᳵ स्तोममर्हते जातवेदसे रथमिव संमहेमा मनी-
षया । भद्रा हि नः प्रमतिरस्य सᳵसद्यग्ने सख्ये मा रिषामा
वयं तव स्वाहेत्यथैरकायामुदीचीनशिरा निपद्यते त्र्यायुषं⁴
जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य⁵ त्र्यायुषमृषीणां⁴ त्र्यायुषं⁴
यद्देवानां त्र्यायुषं⁴ तन्मे अस्तु त्र्यायुषमित्युद्यमानमनुमन्त्रयते⁴
शिवा मे भवथ सᳵस्पृश इति ' क्षुरमभिमन्त्रयते क्षुरो
नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिᳵसीरि-
त्युष्यमानमनुमन्त्रयते यत्क्षुरेण वर्चयासि⁵ वत्रा वपसि केशश्मश्रु
वर्चो मे मुखं मा म आयुः प्रमोषीरिति ' श्मश्रूण्येवाग्रे
वपते ऽथोपपक्षावथ केशानन्योपपादमितराण्यङ्गान्यैतस्माद्धोषा⁶
जरसा⁶ पूर्व आयुषि प्रयान्ति पूर्व आयुय्यन्नादा भवन्ति
१ Thus Ma TE, Ed.; •मुपस्तृणीते M; HB om. this passage.
२ •दपि च Ed.
३ Thus E Ma; चेत्तस्य स्याद्• TH; चेतस्य स्याद्• B; चेत्स्याद्• M; चेदश्वस्याद्• Ed.
४ Thus EM Ma G, Ed.; त्रियायुष• THB Prm.
५ Thus all exc. E: वर्धयसि and T: वर्चसि।
६ Or should we write •पाजरसा? What may be the sense of these words?