बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 653, कुल 774 में से
संदर्भ में पढ़ें३२० [ १७ । ४० । ]
बौधायनश्रौतसूत्रम्
य एवं विद्वांसो लोमानि वापयन्ते ' स यदि लोमानि
वापयिष्यमाणः स्यात्केशश्मश्रु वापयित्वा लोमानि संहृत्य
नखानि निकृन्तयीता॑थैतानि समुच्चित्य ब्रह्मचारिणे प्रयच्छन्ना-
हेमानि हृत्वा दर्भस्तम्बे वोदुम्बरमूले वा निधत्तादिति '
तानि स तत्र निदधात्य॑परेणाग्निं प्राङ्मुख उपविश्य मेखलां ५
विस्रंसयत इमां विष्यामि वरुणपाशमिति ' यो ऽस्य तत्र१
रातेः पुत्रो वान्तेवासी वा भवति तस्मै प्रयच्छन्नाहेमाँ
हृत्वा न्यग्रोधे वोदुम्बरमूले वा निधत्तादिति ' तासु२ स
तत्र निदधातीदमहममुष्यामुष्यायणस्य शुचा पाप्मानमवगूह्या-
म्युत्तरस्य३ द्विषद्भ्य इति ' तृणैः प्रधाव्य दन्तान्विधावयते४ १०
ऽन्नाद्याय व्यपोहध्वं भगो राजायमागमत् । स मे मुखं
प्रसर्पतु वर्चसे च भगाय चेत्यु॑भयोरपः संनिषिञ्चत्युष्णासु शीता
आनयति दैवमानुषस्य५ व्यावृत्या इति ' तामामञ्जलिनोपह-
त्याभिषिञ्चत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः
शुचयः पावका इति तिसृभिः ' षोढाविहितो वै पुरुष १५
इत्येतस्माद्ब्राह्मणाद॑थैतस्य६ सर्वसुरभिपिष्टैः समुदायुत्य त्रिः
प्रषिञ्चति ॥ ४० ॥
१ तत्रारातेः T Ma.
२ Thus TM Ma ; ताम् EHB, Ed.
३ Thus (अवगूह्यामि) MHB Prm Pśm ; अपगू० T Ma EG Pc. Ed.
४ Thus M Prm ; ०धापयते all the other MSS. and G, Ed.
५ दैव० ET and Bhāradvāja ; देव० the other MSS., Ed. and the
Prayogas.
६ ०चैतस्य Ma E, Ed. ; ०चेनस्य MHB ; T indistinct.