सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 651, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 651

नक्षत्रे स्नातं भवत्य॑थो भाग्यो ऽसानीति॑ । हस्ते स्नायादि-
त्येक॒ । सावित्रं वा एतन्नक्षत्रं॑ । तदस्य सावित्र एव नक्षत्रे
स्नातं भवत्य॑थो सवितृप्रसूतो ऽसानीति॑ । चित्राया॒ग् स्नाया-
दित्येकमैन्द्रं वा एतन्नक्षत्रं॑ । तदस्यैन्द्र एव नक्षत्रे स्नातं
भवत्य॑थो चित्रो ऽसानीति॑ । विशाखयोः स्नायादित्येकमै- ५
न्द्राग्नं वा एतन्नक्षत्रं॑ । तदस्यैन्द्राग्न एव नक्षत्रे स्नातं भवत्य॑थो
विशाखो ऽसानि¹ प्रजया पशुभिरित्येतेषामेकस्मिन्नापूर्यमाण-
पक्षे॑ पुरादित्यस्योदयाद्व्रजमभि प्रपद्यते॑ । नैनमेतदहरादित्यो
ऽभितपेत्तदह³ स्नातानामु॒⁴ ह॒⁴ वा॒⁴ एष एतत्तेजसा यशसा
तपत्यन्तर्लोम्ना चर्मणा व्रजमभिविघ्नन्ति⁵ । पूर्वार्धमध्ये व्रजस्या- १०
[L11