बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 650, कुल 774 में से
संदर्भ में पढ़ें[ १७ । ३६ । ] बौधायनगृह्यसूत्रम् ३१७
नापितं च क्षुरं च दारूणि चोपस्तरणं च वृकलाꣳश्च दन्तधाव-
नमुष्णाश्चापः शीताश्च सर्वसुरभिपिष्टं¹ चाञ्जनं च स्रजं
चादर्शं चाहतं च² वासः प्रावरणं³ च वसनान्तरं बादरं मणिꣳ
सुवर्णोपधानꣳ सूत्रं च⁴ प्रवर्तौ च दण्डं चोपानहौ च५
५ छत्रमानडुहं चर्म सर्वरोहितमित्येते ऽस्य संभारा उपकॢप्ता
भवन्ति । स्नानस्य मीमाꣳसा । रोहिण्याꣳ स्नायादित्येकं ।
प्राजापत्यं वा एतन्नक्षत्रं । तदस्य प्राजापत्य एव नक्षत्रे स्नातं
भवत्यथो सर्वान्रोहान्रोहाणीति⁶ । तिष्ये स्नायादित्येकं ।
बार्हस्पत्यं वा एतन्नक्षत्रं । तदस्य बार्हस्पत्य एव नक्षत्रे
१० स्नातं भवत्यथो बृहस्पतिप्रसूतो ऽसानीत्युत्तरयोः फल्गुन्योः
स्नायादित्येकं । भाग्यं वा एतन्नक्षत्रं । तदस्य भाग्य⁷ एव
also use of G (gṛhyaprayoga MS. Burnell cvii, which cites often
literally passages of the Gṛhya), Prm. (Prayogamālā printed
at Bombay), Pś (Prayogaśikhāmaṇi, No. 3108 of the Leiden
collection), Ks (Kanakasabhāpati's kārikā, Burnell cix) and Pc
(Prayogacūḍāmaṇi, Telugu MS., collection Mackenzie No. 21).
Adhyāya 13 is contained only in M and E. The two adhyāyas 12
and 13 are now also printed in the Grantha Edition of the
Baudhāyana smārtasūtra, designed by me as “Ed.”
१ सार्व० EG.
२ only in Ed. TE.
३ Thus EHG; प्रावारं MT, प्रपारं Ma. प्रवारणं Ed.
४ om. HBM (sec. m.).
५ om. THB Ma.
६ Thus B; रोहनीति i.s.o. रोहाणीति the other MSS. and Ed.
७ भग्य TM Ma.