सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 196, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 196

१३.] आयुर्वेदप्रकाशः । १७७
क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।
विषभूतादिशमनं विद्रुमं नेत्ररोगहृत् ॥ ९० ॥
अथ मौक्तिकम्—
ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ ९१ ॥
नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।
न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि॥
यदिच्छायं मौक्तिकं व्यङ्गकायं
शुक्तिस्पर्शं रक्ततां¹ चाति धत्ते ।
मत्स्याक्षीकं रूक्षमुत्ताननिम्नं
नैतद्धार्यं धीमताऽसौख्यदायि ॥ ९३ ॥
लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् ।
मर्दितमपि शालितुषैर्यद्यविकृतं तत्तु मौक्तिकं जात्यम्॥९४॥
मौक्तिकं सुमधुरं सुशीतलं दृष्टिरोगशमनं विपापहम् ।
राजयक्ष्मपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ९५ ॥
कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम् ॥ ९६ ॥
अथ माणिक्यं पद्मराग इति च ।
माणिक्यं मधुरं स्निग्धं वातपित्तविनाशनम् ।
रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ ९७ ॥
स्निग्धं सुगात्ररचितं दीप्तं स्वच्छं सुरङ्गं च ।
तज्जात्यं माणिक्यं कल्याणं धारणात्कुरुते ॥ ९८ ॥
यदिच्छायं शर्करिलं कर्कशधूम्रं स्वरागविकलं च ।
विरूपलघु माणिक्यं न धार्यं दोषावहं त्याज्यम् ॥९९॥
१ 'कृष्णतां' ग. ।