आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 197, कुल 232 में से
संदर्भ में पढ़ें१७८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
कुशेशयदलाच्छायं स्वच्छं स्निग्धं महत्स्फुटम् ।
वृत्तायतं समं गात्रं माणिक्यं त्वष्टधा शुभम् ॥ १०० ॥
माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिनुत् ।
भूतवेतालपापघ्नं कर्मजव्याधिनाशनम् ॥ १०१ ॥
अथ गारुत्मतम् ।
मरकतं हि विषघ्नं शीतलं मधुरं रसे ।
अम्लपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ १०२ ॥
स्वच्छं च गुरु सुच्छायं स्निग्धं गात्रं च मार्दवम् ।
अव्यङ्गं बहुरङ्गं च शुभं मरकतं मतम् ॥ १०३ ॥
शर्करिलं रूक्षमलिनं लघु हीनकान्तिकल्माषम् ।
त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥१०४
यच्छैवालशिखण्डिशाद्वलहरित्कां¹थैश्च काकच्छदैः
खद्योतेन च बालकोरवपुषा शैरीषपुष्पेण च ।
छायाभिः सततं दधाति तदिदं निर्दिष्टमष्टात्मकं
जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥१०५॥
अथ वैडूर्यम् ।
वैडूर्यमुष्णमम्लं च कफमारुतनाशनम् ।
गुल्मादिदोषशमनं भूमिजं च शुभावहम् ॥ १०६ ॥
एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा
मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया ।
यद्गात्रं गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं
वैडूर्यं विदलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥
विच्छायं मृच्छिलागर्भं लघु रूक्षं त्वसत्कृतम् ।
सत्रासं चिपिटं कृष्णं वैडूर्यं दूरतस्त्यजेत् ॥ १०८ ॥
१ 'हरित्काचैश्च' ग. । २ 'नितरां' ग. ।