सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 195, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 195

१७६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै ।
भस्मीभवति तद्वज्रं शङ्खशीतांशुसुन्दरम् ॥ ८२ ॥
इति वज्रभस्म । अथान्यः प्रकारः—
कांस्यपात्रस्थभेकस्य मूत्रे वज्रं समावपेत् ।
त्रिसप्तकृत्वः संतप्तं वज्रमेवं मृतं भवेत् ॥ ८३ ॥
इति वज्रभस्म । कांस्यपात्रस्थभेकस्येत्यस्य व्याख्या—
कांस्यस्य उत्ताना कटोरिका, तत्रस्थो भेको मण्डूकः, अङ्गुल्या-
दिना धर्षितः, पात्रस्य चिकणतया बहिर्गन्तुमशक्तो भीतः
सन्मूत्रं सृजति । इति मूत्रग्रहणार्थमयं यत्न इति भावः ॥
अन्यः प्रकारः—
मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठाम्लवेतसम् ।
शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम् ॥ ८४ ॥
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि ।
इति वज्रभस्म । अथान्यः सुगमः प्रकारः—
हिङ्गुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे ।
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ ८५ ॥
इति वज्रभस्म ।
अथ विद्रुमलक्षणगुणाः ।
पक्वबिम्बीफलच्छायं वृत्तायतमवक्रकम् ।
स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ ८६ ॥
आगाररञ्जनाक्रान्तं वक्रं सूक्ष्मं सकोटरम् ।
रूक्षं कृष्णं लघु श्वेतं प्रवालमशुभं त्यजेत् ॥ ८७ ॥
बालार्ककिरणारक्ता सागरसलिलोद्भवा लता याऽस्ति ।
न त्यजति निजरुचिं निकषे घृष्टाऽपि सा स्मृता जात्या८८
प्रवालं मधुरं साम्लं कफपित्तादिदोषनुत् ।
वीर्यकान्तिकरं स्त्रीणां धृते मङ्गलदायकम् ॥ ८९ ॥