सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 194, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 194

१३.] आयुर्वेदप्रकाशः । १७५
आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च ।
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः ॥ ७३ ॥
अथ वज्रशोधनम्—
व्याघ्रीकन्दगतं वज्रं दोलायन्त्रेण पाचयेत् ।
सप्ताहं कोद्रवक्वाथे कुलिशं विमलं भवेत् ॥ ७४ ॥
अन्यत्र दिनान्यप्युक्तानि—
कुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् ।
व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुध्यति ॥ ७५ ॥
व्याघ्री कण्टकारिका । प्रकारान्तरम्—
व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ।
अहोरात्रात्समुद्धृत्य हयमूत्रेण सेचयेत् ।
वज्रीक्षीरेण वा सिञ्चेत्कुलिशं विमलं भवेत् ॥ ७६ ॥
प्रकारान्तरम्—
गृहीत्वा हि शुभे वज्रं व्याघ्रीकन्दे विनिक्षिपेत् ।
महिषीविष्ठया लिप्त्वा करीषाग्नौ विपाचयेत् ॥ ७७ ॥
त्रियामं वा चतुर्यामं यामिन्यन्तेऽश्वमूत्रके ।
सेचयेत्पाचयेदेवं सप्तरात्रेण शुध्यति ॥ ७८ ॥
अथ वज्रमारणम्—
त्रिवर्षारूढकार्पासमूलमादाय पेषयेत् ।
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥ ७९ ॥
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् ।
एवं सप्तपुटैर्नूनं कुलिशं मृतिमाप्नुयात् ॥ ८० ॥
इति वज्रभस्म । अथान्यः प्रकारः—
त्रिसप्तकृत्वः संतप्तं खरमूत्रेण सेचितम् ।
मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ ८१ ॥