सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 193, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 193

१७४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथ रसरत्नसमुच्चयोक्तानि सर्वेषां लक्षणानि गुणाश्च लि-
ख्यन्ते । वज्रस्य—
वज्रं च षड्रसोपेतं सर्वरोगापहारकम् ।
सर्वाघशमनं सौख्यं देहदाढ्यं रसायनम् ॥ ६६ ॥
भस्साङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् ।
आधारं मलिनं बिन्दुसंत्रासि स्फुटितं तथा ।
नीलाभं चिपिटं रूक्षं तद्वज्रं दोषलं त्यजेत् ॥ ६७ ॥
यत्पाषाणतले निकाषनिकरे नोद्धृष्यते निष्ठुरै-
र्यच्चान्योपललोहमुद्गरमुखैर्लेखं न यात्याहतम् ।
यच्चान्यान्निजलीलयैव दलयेद्वज्रेण वा भिद्यते
तज्जात्यं कुलिशं वदन्ति कुशलाः स्थाप्यं महार्घं च तत् ६८
अष्टास्रं चाष्टफलकं षट्कोणमतिभासुरम् ।
अम्बुदेन्द्रधनुर्वारितरं पुंवज्रमुच्यते ।
पुंस्त्रीनपुंसकं वज्रं योज्यं पुंस्त्रीनपुंसके ॥ ६९ ॥
आयुःप्रदं झटिति सद्गुणदं च वृष्यं
दोषत्रयप्रशमनं सकलामयघ्नम् ।
सूतेन्द्रबन्धरससद्गुणकार्त्स्न्यदायि
मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ ७० ॥
अन्यत्रापि—
वज्रं समीरकफपित्तगदान्निहन्त्या-
द्वज्रोपमं च कुरुते वपुरुत्तमश्रि ।
शोषक्षयभ्रमभगन्दरमेहमेदो-
पाण्डूदरश्वयथुहारि च षड्रसाढ्यम् ॥ ७१ ॥
अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा ।
पाण्डुं तापं गुरुत्वं च तस्मात्संशोध्य मारयेत् ॥ ७२ ॥