सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 192, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 192

१३.] आयुर्वेदप्रकाशः । १७३
तस्या गर्भभवं तु कुङ्कुमनिभं सर्वासु जातिष्वपि
श्रेष्ठं भूरिगुणं वदन्ति कृतिनः श्रेयस्करं तद्भवेत् ।
स्वच्छं ह्लादि लघूदकद्युतियुतं मुक्ताफलं किंचन
स्थूलं स्निग्धमतीव निर्मलमिलाभूमौ प्रकाशं सदा ॥६०॥
आम्नायोदितमस्य मौल्यमवनौ तालद्वयीजन्मको
राशिर्हेमकृतः कृतस्तदधमं वा मध्यमं जायते ।
दोषान् पञ्च लघून्, गुरुंश्च चतुरः, षट् चैव दोषेतरान्
छायास्त्रित्वमिता गृणन्ति सुधियो मुक्तामणौ ते पुनः ॥
दीर्घं पार्श्वकृशं त्रिवृत्तमपि च त्र्यस्रं ततः कापिलं
पञ्चैते खलु मौक्तिकेषु गदिता दोषास्तु साधारणाः ।
नाम्नैवोदितलक्षणाः पुनरमी विच्छिन्नरुद्योगितां-
दौर्भाग्यप्रसुताविनाशलघुताकौलीनताकारिणः ॥६२॥
शुक्तिस्पर्शनमत्स्यनेत्रजठराकारातिरक्ताङ्कताः
श्वित्रक्रोश(?)दरिद्रतामृ्तिकरा दोषा बृहन्तस्त्वमी ।
तेष्वन्त्यौ विशदौ खशुक्तिसदृशस्त्वाद्यो द्वितीयस्ततो
मत्स्याक्षच्छविलाञ्छनः पुनरमी शस्ता न मुक्ताफले६३
दीप्तिर्गौरववृत्तताविमलतासुस्निग्धताकान्तताः
स्युः षट् शुक्तिमणौ गुणा इति गुणैर्युक्तं पुनर्मौक्तिकम्।
यः कण्ठे विभृयात्समस्तजनुषामह्नः समाप्तिं नये-
च्छायास्तु त्रिविधा स्मृता मधुसिताश्रीखण्डखण्डश्रियः॥
वृत्तस्थूलगुरूरुकच्छुचि शुभं नीवीं तु तत्प्राप्नुया-
त्सत्यं त्वत्र तुलामशन्ति कवयो जातिस्पृशं मौक्तिकम्।
गुञ्जा द्वित्रियवाङ्गवेदिह पुनर्माषश्चतुर्भिश्च तैः
शाणः शाणयुगात्कलञ्ज उदगान्निष्कस्तदेकादशात् ६५
इति मुक्तोत्पत्तिलक्षणानि ॥
१ 'विच्छिन्नरुग्योगिता' ग. । २ 'त्रासं' ग. ।