सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 93, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 93

संस्कृत-हिन्दीव्याख्याद्वयोपेता ३३
भावः ), जनेन मानवेन, दाहभयतो दाहभीतेः, करतलस्पर्शः पाणिस्पर्शनं
परीक्ष्यः, परीक्षितुमशक्य इत्यर्थः, एतस्या विरहज्वालावलीढायाः
कामिन्या यः स्मरसंज्वरः कामज्वरतापः, अस्तीति शेषः, तस्मिन् ज्वरे
अनिर्वीर्यो निर्वीर्यः कृतः इति निर्वीर्यीकृतः ( अभूततद्भावेच्चिः, )
निष्प्रभावीकृत इति यावत्, चन्दनरूपस्य श्रोखण्डद्रवात्मकस्यौषधेर्भेषजस्य,
चन्दनस्येतरतापशामकौषधिविशेषाणां वा विधिविधानं प्रयोग इति यावत्,
येन तादृशम्, अर्थात् विफलितसकलप्रतिकारे सति, तडत्कारिणस्तडत-
डायमानाः, हारस्रजां माल्यानाम्, अमी पुरोवर्तमानाः, मणयो रत्नविशेषाः,
लाजस्फोटं लाजानां स्फोटमिवेति भावः, स्फुटन्ति। यथाग्निसंयोगेन
धान्यादिकं लाजादिरूपेण परिणमत् तडदित्यव्यक्तध्वनिं विधत्ते तथैवैतस्या
विरहज्वालावलीढायाः कामज्वरतापेन माल्यगुम्फिता मण्यस्तड-
तडायमाना लाजा इव द्विधा भवन्ति।
गुणगत अनौचित्य का द्वितीय उदाहरण दिखाने के लिए कहा गया है—नतु
यथेति। एतस्या इति। द्रोण (दस सेर) प्रमाण पानी को भी शुष्क कर देनेवाला
इस वियोगिनी का कामज्वर जो कि अनुरक्त जनों के द्वारा भी जल जाने के भय
से हाथ से छूकर परीक्षा करने योग्य नहीं है, चन्दन या अन्य शीतलताजनक
ओषधियों को भी विफल कर देनेवाली इस कामज्वर की दशा में इसके हार के
सभी मणि तड़तड़ाहट के साथ लावा के समान फूट रहे हैं।
अत्र विरहविधुररमणीमनोभवावस्थानुरूपं माधुर्यमुत्सृज्य तडत्का-
रिणो लाजस्फोटं स्फुटन्तीत्योजःस्फूर्जितोर्जितस्वभावाधिवासिता
सूक्तिर्लावण्यपेशलतनुर्ललितललनेव परुषभाषिणी झटित्यनौचित्यं चेतसि
सञ्चारयति ॥ १४ ॥
उपर्युक्तमेव विवृणुते—अत्रेति। अत्र पद्ये विरहविधुराया वियोग-
पीडितायाः, रमण्याः कामिन्याः, मनोभवावस्थायाः कामदशायाः, अनुरूप-
मनुकूलं, माधुर्यं मधुरिमाणमुत्सृज्य परित्यज्य, “तडत्कारिणो लाजस्फोटं
स्फुटन्ति” इत्याकारकपदविन्यासेनौजस ओजोगुणस्य, स्फूर्जितोर्जितस्व-
भावेन स्फूर्जदूर्जस्वलप्रकृत्याधिवासिता सुरभिता सुयुक्तेति यावत्, सूक्तिः
सुभाषित, लावण्यपेशलतनुः सौन्दर्यमसृणदेहा, परुषभाषिणी कटुभाषिणी,
३ औ०