औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 83, कुल 256 में से
संदर्भ में पढ़ेंसंस्कृत-हिन्दीव्याख्याद्वयोपेता २३
किमक्षत्रिया पृथिवी यदेवमुद्घुष्यते । ( विहस्य ) आः किं नाम स्फुरन्ति
शस्त्राणि । ( धनुरारोपयन् )
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्रमुद्गारिघोषघनघर्घरघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्रजृम्भाविडम्बिविकटोदरमस्तु चापम् ॥
प्रबन्धार्थगतौचित्यस्य द्वितीयमुदाहरणं प्रदर्शयितुमाह-यथा वा भव-
भूतेरिति । नेपथ्ये इति । रङ्गमञ्चपृष्ठभागगतप्रसाधनस्थाने इत्यर्थः !
योऽयमिति । अयं निकटस्थो योऽश्वो घोटकः, इयमेषा, विधेयभूतायाः
पताकाया वीरघोषणाया वाऽनुसारेण स्त्रीलिङ्गनिर्देशः, उद्देश्यविधेययो-
रैक्यमापादयत्सर्वनाम पर्यायेणान्यतरलिङ्गभागभवतीति नियमात्, सप्त-
लोकैकवीरस्य सप्तसु भूरादिषु लोकेषु भुवनेषु, एकवीरस्य मुख्यशूरस्य,
दशकण्ठकुलद्विषो रावणवंशविनाशकस्य रामचन्द्रस्येति यावत्, पताका
विजयध्वजः, अथवा वीरघोषणा पराक्रमसूचको डिण्डिमध्वनिरिति भावः ।
किं प्रयोजनोऽयमश्वः परिवृतः पर्यटति ? इति लवसहचरबटुगणकृतप्रश्न-
स्योत्तरमिदं पद्यमिति बोध्यम् ।
तच्छ्रवणानन्तरं लवस्य प्रतिक्रियां वर्णयति—लव इति। लवो वाल्मी-
केराश्रमे पाल्यमानो जानकीपुत्रः, सगर्वमिव साभिमानं यथा स्यात्तथा,
अहो खेदसूचकमव्ययमेतत् सन्तापनानि क्रोधजननद्वारा दाहकानि,
अक्षराणि योऽयमश्वः इत्यादीनीति भावः । भो भोः अरेऽरे अक्षत्रिया
क्षत्रिय ( वीर ) विहीना, पृथिवी मेदिनी, किमिति प्रश्ने, यदेवं येनैवं
प्रकारेण, उद्घुष्यते घोषणा क्रियते । (विहस्य हसित्वा) । आः शस्त्राण्य-
स्त्राणि, स्फुरन्ति विद्योतन्ते, किं नाम ? अश्वहरणार्थमुद्यतानामस्माकमुपरि
प्रहाराय सैनिकैः शस्त्राणि समुत्तोल्यन्ते किम् ? इति भावः । (धनुः कार्मुक-
मारोपयन्सज्जयन्) । ज्याजिह्वयेति । ज्या मौर्वी, सैव जिह्वा रसना तया
वलयिते वेष्टिते, उत्कटकोटी उग्राग्रभागावेव, दंष्ट्रे दशने यस्य तत्,
उद्गारिण उद्गच्छन्तः, घोरा भयानकाः, घनाः सान्द्राः, घर्घरघोषा घर्घ-
रेत्याकारक शब्दा यस्य तत्, एतत् मद्हस्तवर्ति, चापं धनुर्ग्रासे कवलने,
प्रसक्तं संलग्नमत एव हसत् उपहासमिव कुर्वत् यदन्तकस्य कृतान्तस्य,
वक्त्रं मुखं तदेव यन्त्रं तस्य; जृम्भाया व्यादानस्य, विडम्बि अनुकारि,