सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 76, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 76

१६ औचित्यविचारचर्चा
औचित्य की मर्यादा से युक्त वाक्य-विन्यास काव्यालोचनचतुरों का अत्यन्त प्रिय
होता है ।
यथा मम विनयवल्ल्याम्—
देवो दयावान्विजयो जितात्मा यमौ मनः संयममाननीयौ ।
इति ब्रुवाणः स्वभुजं प्रमाष्टि यः कीचकालिककालदण्डम् ॥
धीरः स किर्मीरजटासुरारिः कुबेरशौर्यप्रशमोपदेष्टा ।
दृष्टो हिडिम्बादयितः कुरूणां पर्यन्तरेखागणनाकृतान्तः ॥युग्मकम्॥
वाक्यगतमौचित्यमुदाहर्तुमाह-यथा ममेति । देव इति । देवो युधि-
ष्ठिरः, दयावान् दयाशीलः, विजयोऽर्जुनः, जितात्मा विजितात्मव्यापारो
यमौ नकुलसहदेवौ, मनःसंयममाननीयौ मनसश्चित्तस्य संयमेन वशी-
करणेन, माननीयौ मानार्हौ, इति पूर्वोक्तरूपेण, ब्रुवाणः—कथयन्, यः
( भीमसेनः ) कीचकाकालिककालदण्डे कीचकाय तन्नामकनृपविशेषाय
विराटश्यालकायेति भावः, अकालिकमसामयिकं कालदण्डं कृतान्तल-
गुडमिव वर्तमानं, स्वभुजं निजबाहूदण्डं, प्रमाष्टि प्रमार्ज्यति, दयादि-
भिर्हेतुभिर्युधिष्ठिरादयः शत्रुशातने नितरामसमर्था इति स्वभुजस्यैव
संवलत्वेन तत्परिमार्जनमुचितमेवेति भावः । किर्मीरजटासुरारिः किर्मीरी
चित्रविचित्रा, जटा केशग्रन्थिर्यस्यैवंभूतो योऽसुरो राक्षसः, तस्यारिर्घातकः
कुबेरशौर्यप्रशमोपदेष्टा कुबेरस्य धनाधिपस्य, शौर्यस्य शूरतायाः, प्रशमस्य
विनाशस्योपदेष्टा, कुरूणां कौरवाणां, दुर्योधनादीनां, पर्यन्तरेखागणना-
कृतान्तः पर्यन्तरेखाया जीवनान्तलेखायाः, गणनायां संख्याने, कृतान्तो
यमराडिव वर्तमानः गुरुकुलविनाशकारक इत्यर्थः, हिडिम्बादयितः
हिडिम्बायास्तन्नामकासुरकन्यकायाः, दयितः प्रियतमो, धीरो गम्भीरो
स भीमसेनो दृष्टोऽवलोकितो लोकैरिति शेषः ।
वाक्यगत औचित्य के उदाहरणस्वरूप ग्रंथकार ने स्वरचित विनयवल्ली
नामक पुस्तक में से यह पद्य उद्धृत किया है । धर्मराज युधिष्ठिर अत्यन्त दयावान्
हैं, अर्जुन बलवान् होते हुए आत्मविजेता भी हैं, नकुल और सहदेव चित्तवृत्ति
के संयम में पूर्ण प्रसिद्धि प्राप्त कर चुके हैं, ऐसी स्थिति में इनलोगों के द्वारा
शत्रुसंहार असंभव है ऐसा कहता हुआ जिसने कीचक के लिये दूसरे यमदंड के
समान आचरण करने वाले अपने बाहुयुगलों को चढ़ाना शुरू कर दिया, किर्मीर