औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 66, कुल 256 में से
संदर्भ में पढ़ेंउक्तार्थस्यैव विशेषमाह—
उचितस्थानविन्यासादलङ्कृतिरलङ्कृतिः ।
औचित्यादच्युता नित्यं भवन्त्येव गुणा गुणाः ॥ ६ ॥
मूलार्थमेव विवृण्वन्नाह—उचितेति । अलङ्कृतिर्लौकिकालङ्कारोऽपि
उचितस्थानविन्यासात् यथोचितस्थाने साधुन्यासादेव, अलङ्कृतिर-
लङ्कारपदवाच्यो भवितुमर्हति । एवमेव औचित्यादच्युता अपरिभ्रष्टा
एव गुणा गुणा भवन्ति, गुणतामासादयन्ति ॥
मूल अर्थ पर ही विशेष प्रकाश डालने के अभिप्राय से कहा जा रहा है—
उचितेति । अलंकार तथा गुण तभी अलंकार एवम् गुण कहलाने की क्षमता रखते
हैं जब वे औचित्य की सीमा से बाहर नहीं जाते, अर्थात् उचित स्थान में
विन्यस्त अलंकार ही अलंकार और उचित स्थान में प्रदर्शित गुण ही गुण कहला
सकते हैं अन्यथा नहीं ॥ ६ ॥
अलङ्कृतिरुचितस्थानविन्यासादलङ्कर्तुं क्षमा भवति, अन्यथा
त्वलङ्कृतिव्यपदेशमेव न लभते । तद्वदौचित्यादपरिच्युता गुणा गुणता-
मासादयन्ति अन्यथा पुनरगुणा एव ।
यदाह—
कण्ठे मेखलया नितम्बफलके तारेण हारेण वा,
पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा ।
शौर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता-
मौचित्येन विना रुचिं प्रतनुते नालङ्कृतिर्नो गुणाः ॥ ६ ॥
पूर्वोक्तार्थमेवोदाहरणादिना स्पष्टयति-अलङ्कृतिरिति । अलङ्कृति
भूषणसमूहः, उचितस्थानविन्यासादेव, अलङ्कर्तुं भूषयितुं, क्षमा समर्था
भवति । अन्यथा उचितस्थानविन्यासाभावे, अलङ्कृतिव्यपदेशमेव अल-
ङ्कारपदवाच्यत्वमेव, न लभते = न प्राप्नोति । स्थूलव्यत्ययेनालङ्कृतीनां
शोभाविशेषजनकत्वापेक्षया भद्रभावनाराहित्यस्यैव द्योतनत्वमुपपद्येतेति
भावः । तद्वदौचित्यादपरिच्युताः तथैव औचित्यादहीना एव गुणा गुण-
तामासादयन्ति गुणपदवाच्या भवन्ति, अन्यथा औचित्यराहित्ये पुनरगुणा
एव । कापुरुषादीनां शौर्यादिवर्णनेऽनन्विततया रसादिपोषणापेक्षया
तद्व्याघातस्यैव सम्भावनेति बोध्यम् ।