औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 64, कुल 256 में से
संदर्भ में पढ़ें४ औचित्यविचारचर्चा
यस्य काव्यस्य, जीवितं जीवनाधायकम्, औचित्यम् अनुरूपविधान-
रूपं, विचिन्त्यापि विचार्यापि, न दृश्यते न अवलोक्यते, तस्य काव्यस्य,
अलङ्कारैरुपमारूपकादिभिः, अलम् असति प्राणे भूषणमिव व्यर्थमिति
भावः, मिथ्यागणितैर्मृषाख्यातैर्गुणैरोजःप्रसादादिभिः किम् ? न किमपी-
त्यर्थः । यत्र काव्ये रसजीवातुभूतौचित्यमेव नास्ति तत्र गुणालङ्कारादि-
चिन्तनक्लेशो मुधैवेति भावः ॥ ४ ॥
जिस काव्य में तदात्मतत्त्व अचित्य का कुछ भी लेश न हो वहाँ अलंकार
तथा गुण का चिंतन सर्वथा निरर्थक है ॥ ४ ॥
अलङ्कारास्त्वलङ्कारा गुणा एव गुणाः सदा ।
औचित्यं रस-सिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ ५ ॥
अलङ्कारा अनुप्रासोपमादयः, अलङ्कारा एव बाह्यशोभाकराणि
भूषणान्येव, एतेषामलङ्कार्यत्वाभाव इति बोध्यम् । गुणा ये च प्रसाद