सामग्री पर जाएँ
सर्वकोश
औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)

Aucitya Vicara Charcha of Kshemendra with Commentary

महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा

DevanagariHindipublished256 पृष्ठ

पृष्ठ 62, कुल 256 में से

संदर्भ में पढ़ें
पृष्ठ 62

२ औचित्यविचारचर्चा
कृत्वापि काव्यालङ्कारां क्षेमेन्द्रः कविकर्णिकाम् ।
तत्कलङ्कं विवेकञ्च विधाय विबुधप्रियम् ॥ २ ॥
औचित्यस्य चमत्कारकारिणश्चारुचर्वणे ।
रसजीवितभूतस्य विचारं कुरुतेऽधुना ॥ ३ ॥ (युग्मकम्)
विवेच्यवस्तु निर्दिशति—कृत्वापीति । क्षेमेन्द्रो ग्रन्थकर्ता, काव्याल-
ङ्काराम् काव्यस्य काव्याङ्गभूतेति यावत्, अलङ्कारा उपमारूपकादयो
यस्याम् इति व्यधिकरणपदो बहुव्रीहिः, अन्यथाऽलङ्कारशब्दस्य नित्य-
पुंल्लिङ्गतया स्त्रीलिङ्गत्वमसङ्गतं स्यात्, काव्यगतालङ्कारप्रतिपादिकामिति
भावः, कविकर्णिकाम् तन्नामकग्रन्थविशेषम्, कृत्वापि सम्पाद्यापि,
अपिना तत्करणेऽपि स्वपरितोषाभावः सूच्यते, च पुनः तत्कलङ्कम् काव्य-
कलङ्कम्, तन्नामकं काव्यदोषनिरूपणपरं निबन्धविशेषमिति यावत् ।
अथवा तत्कलङ्कम् तस्याः कविकर्णिकायाः, कलङ्कम् दोषम्, प्रमार्ष्टुमिति
शेषः, धातूनामनेकार्थत्वादुद्धृत्येत्यर्थक-विधायेतिल्यबन्तक्रियापदवाच्या-
न्वयार्थकम् कर्मपदं वैतत्, विवेकम् काव्यविवेकं तन्नामककाव्यलक्ष-
णादिनिरूपकग्रन्थविशेषम् अथवा विवेकम् वस्तुतत्त्वविचारं, विधाय
कृत्वा, द्वितीयकल्पतयोहितेनार्थेन “कविकर्णिकाकरणकालं यावत्, अल-
ङ्कारतत्त्वमेव काव्ये सर्वप्रधानं मन्यमानोऽहमासम्, परन्तु पश्चात्तन्-
निजमान्यतायां दोषो मया दृष्टः, अलङ्कारतत्त्वसूक्ष्मपरिशीलनेन च
औचित्यतत्त्वं सर्वतः प्रधानं मम ध्यानपथे समायातमिति रहस्यं
ध्वनितमवगन्तव्यम् । अधुना इदानीम्, तद्विधानानन्तरमिति यावत्,
चमत्कारकारिणः विच्छित्तिविशेषप्रयोजकस्य, चारुचर्वणे रमणीयास्वादे
सुन्दरास्वाददशायामिति यावत्, रसजीवितभूतस्य रसेऽपि सारभूतस्य
तदन्तरा रसनीयताविरहेण रसत्वस्यैवासम्भवात् । एतेन रसादेः प्रधानत्व-
प्रवादोऽलङ्कारादितत्त्वान्तरापेक्षिकः, सर्वतः प्रधानत्वन्तु औचित्यतत्त्व-
स्यैवेत्यर्थो ध्वनितः, औचित्यस्य वक्ष्यमाणलक्षणस्य काव्यात्मतत्त्वभूतस्य
विबुधप्रियं विशिष्टविद्वज्जनश्लाघ्यम्, एतेन साधारणपण्डितम्मन्यजन-
प्रियत्वाभावेऽपि नैतस्य विचारस्य किञ्चिच्छिन्नं भवतीति व्यज्यते,
विचारम् आलोचनम्, कुरुते विधत्ते इत्यर्थः । यशोलाभरूपस्य क्रियाफलस्य
कर्तृगामित्वेनात्मनेपदं बोध्यम् ॥ २-३ ॥
आचार्य क्षेमेन्द्र ने पहले कविकर्णिका नामक एक ग्रन्थ बनाया जिस