औचित्यविचारचर्चा (महाकवि क्षेमेन्द्र - औचित्य रससिद्धस्य स्थिरं काव्यस्य जीवितम् सटीक)
Aucitya Vicara Charcha of Kshemendra with Commentary
महाकवि क्षेमेन्द्र (टीकाकार: पं. ब्रजमोहन झा) द्वारा
पृष्ठ 248, कुल 256 में से
संदर्भ में पढ़ें३८८ | औचित्यविचारचर्चा
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां,
कञ्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥
अनौचित्यं यथा कस्यचिदज्ञातकवेः—
हा नृप हा बुध हा कविबन्धो,
विप्रसहस्रसमाश्रय ! देव ! ।
मुग्ध विदग्ध सभान्तररत्न,
कासि गतः क्व वयञ्च तवैते ॥
उक्तपद्यद्वये "प्रावृट्प्रवासकथने मन्दाक्रान्ता विराजते" इति निय-
मात्प्रवासकथने मन्दाक्रान्ताया एवौचित्यं न तु दोधकस्येति, पूर्वत्र वृत्त-
स्यौचित्यं परत्र चानौचित्यमिति बोध्यम् । इदमत्राकूतं यत् न खलु
सर्वाणि वृत्तानि सर्वत्रोपयुक्तानि भवन्त्येष वृत्तस्वभावः । अत एव यद्
वृत्तं यद्वस्तुतत्त्वाख्याने समर्थं तत्र तत्प्रयोग औचित्यमावहति, तदन्यथा-
प्रयोगोऽनौचित्यमत एव प्रकृतेऽपि प्रवासकथनरूपविषयप्रतिपादने
मन्दाक्रान्तैव युक्ता न दोधकमिति ।
वर्णौचित्यं यथा भवभूतेः—
झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनु-
र्ध्वनद्, गुरुगुणाटनीकृतकरालकोलाहलम् ।
वितत्य किरतोः शरानविरतस्फुरच्चूडयो-
र्विचित्रमभिवर्धते भुवनभीममायोधनम् ॥
अनौचित्यं यथा कस्यचिदज्ञातकवेः—
उद्वर्तयति उल्लोटयति शयने कर्ह्यपि मोट्टयति ।
नो परिघट्टयति हृदयेन स्फोटयति लज्जया खट्टयति धृतेः ॥
अत्र प्रथमं भीषणसङ्ग्रामोचिताया धनुषां झणत्कृतेः, शस्त्रास्त्राणां
खटत्कृतेश्च सूचनार्थं प्रयुक्तो वर्णविन्यास औचित्यमातनोति । परत्र च
शृङ्गाररसाभिव्यञ्जकवर्णविन्यासमपहायानुप्रासार्थं टकारा आयोजिता
यैश्च शृङ्गाररसोद्बोधे महानन्तरायः समुत्पन्नः । अत एवात्रानौचित्यं
सम्पन्नम् । एवमेवान्यत्राप्यूह्यम् ।
ग्रंथ-समाप्ति की सूचना देने के लिये कहा गया है—अन्येष्विति । उपर्युक्त
पद, वाक्य, प्रबन्धार्थ आदि सत्ताइसों औचित्य की तरह दूसरे (वृत्त = छन्द और
वर्ण = अक्षर आदि ) काव्याङ्गों में भी स्वयं औचित्यानौचित्य का ऊह करना